पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० मनुस्मृतिः। [ अध्यायः ११ ख्यानपरे भविष्यपुराणे-'यदेतद्वचनं वीर ब्राह्मणस्तपसैव वा। तत्रैव कारणाद्विद्वन् ब्राह्मणस्य सुराधिप । तपसैवेत्यनेनेह प्रतिषेधो वधस्य तु ।' वाशब्दश्च क्षत्रियादी- चामपि तपोविकल्पार्थः । ब्राह्मणस्य तु तप एवेति नियमो नतु ब्राह्मणस्यैव तपः। अतएव भविष्यपुराणे-'इतरेषामपि विभो तपो न प्रतिपिध्यते' इति ॥ १०॥ तदेव तप आह- तपसापनुनुत्सुस्तु सुवर्णस्तेयज मलम् । चीरवासा द्विजोऽरण्ये चरेब्रह्महणो व्रतम् ॥ १०१॥ तपसेति ॥ तपसा स्वर्णस्तेयोत्पन्नं पापं द्विजो निहर्तुमिच्छन्नरण्यग्रहणात्प्राथ- म्याच्च ब्रह्महणि यगतमुक्तं तत्कुर्यात् । एतच्च द्वादशवार्षिकं क्लेशगौरवात्क्षत्रिया- दीनां मरणेन विकल्पितत्वाच्च ब्राह्मणसंवन्धिनः सुवर्णापहरणे ‘पञ्चकृष्णलको मा- पस्ते सुवर्णस्तु पोडश' इति सुवर्णपरिमाणं द्रष्टव्यं न ततो न्यूनस्य । परिमाणापे. क्षायां मनूनपरिमाणस्य ग्रहीतुं न्याय्यत्वात्। यत्त्वधिकपरिमाणं भविष्यपुराणे श्रूयते तत्तथानुवन्धविशिष्टापहारे तथाविधप्रायश्चित्तविषयमेव । तथा भविष्यपुराणे- 'क्षत्रियाद्यास्त्रयो वर्णा निर्गुणा ह्यघतत्पराः । गुणाढ्यस्य तु विप्रस्य पञ्च निका. न्हरन्ति चेत् ॥ निष्कानेकादश तथा दग्ध्वात्मानं तु पावके । शुच्येयुर्मरणाद्वीर चरे- ब्रह्मात्मशुद्धये ॥ १० ॥ एतैव्रतरपोहेत पापं स्तेयकृतं द्विजः। गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥ १०२॥ प्रतैरिनि.॥ ब्राह्मणसुवर्णस्तेयजनितपापमेभिर्वतैर्द्विजो निहरेत् । व्रततपसोई- योरुक्तवादेतैरिनि बहुवचनं संबन्धापेक्षया मनूक्तमपि प्रायश्चित्तं कल्पनीयमिति ज्ञापनार्थम् । गुरुस्त्रीगमननिमित्तं पुनः पापमेभिर्वक्ष्यमाणैः प्रायश्चित्तैनिहरेत् ०२ गुरुतल्प्यभिभाष्यैनस्तप्ते खप्यादयोमये । मूर्मी ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुद्ध्यति ॥१०३॥ गुर्विति ॥ 'निकादीनि कर्माणि' इत्युक्तत्वाद्गुरुः पिता, तल्पं भार्या, गुरुतल्पं गुरुभार्या तगामी गुरुभार्यागमनपापं विख्याप्य लोहमये तप्तशयने स्वप्यात् । लोहमयी स्त्रीप्रतिकृतिं कृत्वा ज्वलन्तीमालिङ्गय मृत्युना स विशुद्धो भवति १०३ स्वयं वा शिश्नपणावुत्कृत्याधाय चाञ्जलौ । नैऋती दिशमातिष्ठेदानिपातादजिह्मगः॥ १०४ ॥ स्वयं वेति ॥ आत्मनैव वा लिङ्गवृषणौ छित्त्वाञ्जलौ कृत्वा यावच्छरीरपातम- वक्रगतिः सन्दक्षिणपश्चिमां दिशं गच्छेत् । एवं चोक्तप्रायश्चित्तद्वयं गुरुत्वात्सवर्ण- गुरुभार्याविषयं ज्ञानतो रेतोविसर्गपर्यन्तमैथुनविषयम् ॥ १०४ ॥ खदाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः॥१०५॥