पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४३९ मद्यस्वभावः । यमधिकृत्येदं पुलस्त्योक्तप्रायश्चित्तम् । 'द्राक्षेनुटङ्कखजूरपनसादेश्व यो रसः । सद्योजातं च पीत्वा तु त्र्यहाच्छुद्ध्येद्विजोत्तमः।' एवं मद्यादि चतुष्टयं वक्षरक्षःपिशाचसंबन्ध्यन्नं ततस्तद्राह्मणेन देवानां हविर्भक्षयता नाशितव्यम् । नि- पिद्धायाः सुराया इहोपादानं यक्षरक्षःपिशाचान्नतया निन्दार्थम् । अत्र केचित् 'देवा- लामनता हविः' इति पुंलिङ्गनिर्देशाद्राह्मणस्य पुंस एव मद्यप्रतिषेधो न स्त्रिया इत्या- हुस्तदसत् । 'पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृधी सूकरी चोपजायते ॥' इति याज्ञवल्क्यादिस्मृतिविरोधात् ॥ ९५ ॥ अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् । अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः॥९६॥ अमेध्य इति ॥ ब्राह्मणो मद्यपानमदमूढबुद्धिः सन्नशुचौ वा पनेत्, वेदवाक्यं वो- चारयेत्, ब्रह्महत्याद्यकार्य वा कुर्यादतस्तेन मद्यपानं न कार्यमिति पूर्वस्वैवानुवादः ॥ यस्य कायगतं ब्रह्म मधेनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ९७ ।। यस्येति ॥ यस्य ब्राह्मणस्य कायगतं ब्रह्म वेदः संस्काररूपेणावस्थितः एकदे- हत्वात् जीवात्मा एकवारमपि मद्येनाप्लाव्यते तथा चैकवारमपि यो ब्राह्मणो मद्यं पिबति तस्य ब्राह्मण्यं व्यपैति शूद्रतां समासोति । तस्मान्मधं सर्वथैव न पातव्यम् ॥ ९७ ॥ एपा विचित्राभिहिता सुरापानस्य निष्कृतिः। अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ९८ ॥ एषेति ॥ इदं सुरापानजनितपापस्य नानाप्रकारं प्रायश्चित्तमभिहितम् । अतः परं ब्राह्मणसुवर्णहरणपापस्य निप्कृतिं वक्ष्यामि ॥ ९८ ॥ सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु । खकर्म ख्यापयन्ब्रूयान्मां भवाननुशास्त्विति ॥ ९९ ॥ सुवर्णेति ॥ 'अपहृत्य सुवर्ण तु ब्राह्मणस्य यतः स्वयम्' इति शातातपस्मरणा- ब्राह्मणसुवर्णचौरो ब्राह्मणो राजानं गत्वा ब्रह्माणसुवर्णापहारं स्वीयं कर्म कथयन्मन निग्रहं करोत्विति ब्रूयात् । ब्राह्मणग्रहणं मनुष्यमात्रप्रदर्शनार्थम् । 'प्रायश्चित्तीयते नरः' इति प्रकृतत्वात्क्षत्रियादीनां च प्रायश्चित्तान्तरानभिधानात् ॥ ९९ ॥ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुद्ध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ १० ॥ गृहीत्वेति ॥ 'स्कन्धेनादाय मुसलम्' इत्यादेरक्तत्वात्तेनार्पितं मुसलादिकं गृही- त्वा स्तेयकारिणं मनुष्यमेकवारं राजा स्वयं हन्यात् । स च स्तेनो वधेन मुसलाभिघा- तेन 'हतो मुक्तोऽपि वा शुचिः' इति याज्ञवल्क्यस्मरणान्मृतो वा मृतकल्पो वा जीवंस्तस्मात्पापान्मुच्यते । ब्राह्मणः पुनस्तपसैव वेत्येवकारदर्शनात् । तथाच -'न जातु ब्राह्मणं हन्यात्सर्वपापेप्ववस्थितम्' इति तपसैव शुध्यति । अतएव मन्वर्थच्या-