पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८. मनुस्मृतिः। [ अध्यायः ११ दिव्यामूढतया द्विजो ब्राह्मणादिश्च पीत्वाग्निवर्णी सुरां पिबेत्तया सुरया शरीरे निर्दग्धे सति द्विजस्तस्मात्पापान्मुच्यते । एतच्च गुरुत्वात्कामकारकृतसुरापानवि- पयम् । तथाच बृहस्पतिः-'सुरापाने कामकृते ज्वलन्तीं तां विनिःक्षिपेत् । मुखे नया स निर्दग्धो मृतः शुद्धिमवामुयात् ॥ ९० ॥ गोमूत्रमग्निवर्ण वा पिबेदुदकमेव वा । पयो घृतं वामरणागोशकद्रसमेव वा ॥ ९१ ॥ गोमूत्रमिति ॥ गोमूत्रजलगोक्षीरगव्यवृतगोमयरसानामन्यतममग्निस्पर्श कृत्वा चावन्मरणं पिबेत् ॥ ९१ ॥ कणान्वा भक्षयेदब्दं पिण्याकं वा सकृनिशि । सुरापानापनुत्त्यर्थ वालवासा जटी ध्वजी ॥ ९२ ॥ कणान्वेति ॥अथवा गोरोमादिकृतवासा जटावान् सुराभाजनचिह्नः सूक्ष्मतण्डु- लावयवानाकृष्टतैलं तिलं वा रात्रावेकवारं संवत्सरपर्यन्तं सुरापानपापनाशनार्थ भक्षयेत् । इदमबुद्धिपूर्वकममुख्यसुरापाने द्रष्टव्यं नतु गुणान्तरवैकल्पिकं लघु- स्वात् ॥ ९२॥ सुरां वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत् ॥ ९३ ॥ सुरेति ॥ यस्मात्तण्डुलपिष्टसाध्यत्वात्सुराऽन्नमलं मलशब्देन च पापमुच्यते । तस्माद्राह्मणक्षत्रियवैश्याः पैष्टी सुरां न पिबेयुरित्यनेन प्रतिषेधे सत्येतदतिक्रमे 'सुरां पीत्वा' इति प्रायश्चित्तमन्नमलानुवादाच पैष्टीनिषेध एव स्फुटस्त्रैवर्णिकस्य मनुनैवोक्तः ॥ ९३ ॥ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः॥ ९४ ॥ गौडीति ॥ या गुडेन कृता सा गौडी, एवं पिष्टेन कृता पैष्टी, मधुकवृक्षो मधुस्तत्पुष्पैः कृता सा माध्वी, एवं त्रिप्रकारा सुरा जायते । मुख्यसुरासाम्यनि- बोधनमितरसुरापेक्षया ब्राह्मणस्य गौडीमाध्वीपाने प्रायश्चित्तगौरवार्थम् । यथा वैका पैष्टी मुख्या सुरा पूर्ववाक्यानिषिद्धत्वात्रैवर्णिकस्यापेक्षया तथा पूर्वा गौडी माध्वी च द्विजोत्तमैन पातव्या ॥ ९४ ॥ यक्षरक्ष:पिशाचान्नं मद्यं मांसं सुरासवम् । तहाह्मणेन नात्तव्यं देवानामश्नता हविः॥९५॥ यक्षेति ॥ मद्यमन्त्र निषिद्धं पैष्टीगौडीमाध्वीव्यतिरिक्तं नवविधं बोद्धव्यम् । तान्याह पुलस्त्यः-'पानसद्राक्षमाध्वीकं खाजूंरं तालमैक्षवम् । माध्वीकं टाङ्क- माकमैरेयं नालकेरजम् ॥ सामान्यानि द्विजातीनां मद्यान्येकादशैव च । द्वादशं तु सुरामा सर्वेषामधमं स्मृतम् ॥' मांसं च प्रतिषिद्धम् । सुरा च त्रिप्रकारा प्रोक्ता । असूयत इत्यासवो मद्यानामवस्थाविशेषः । सद्यःकृतसंसाधनोऽसंजात- ..