पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। २३

एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः ।
देवान्देवनिकायांश्च महर्षीश्वामितौजसः ॥ ३६॥

एते मनूंस्त्विति ॥ एते मरीच्यादयो दश भूरितेजसो बहुतेजसोऽन्यान् सप्तापरिमिततेजस्कान् मनून्देवान् ब्रह्मणाऽसृष्टान् देवनिवासस्थानानि स्वर्गादीन्महर्षीश्च सृष्टवन्तः । मनुशब्दोऽयमधिकारवाची। चतुर्दशसु मन्वन्तरेषु यस्य यत्र सर्गाद्यधिकारः स तस्मिन्मन्वन्तरे स्वायंभुवस्वारोचिषादिनामभिर्मनुरिति व्यपदिश्यते ॥३६

यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ।
नागान्सन्सुिपर्णांश्च पितॄणां च पृथग्गणान् ॥ ३७॥

यक्षरक्ष इति ॥ एतेऽसृजन्निति पूर्वस्यैवात्रानुषङ्गः उत्तरत्र श्लोकद्वये च । यक्षो वैश्रवणस्तदनुचराश्च । रक्षांसि रावणादीनि । पिशाचास्तेभ्योऽपकृष्टा अशुचिमरुदेशनिवासिनः । गन्धर्वाश्चित्ररथादयः । अप्सरस उर्वश्याद्याः । असुरा विरोचनादयः । नागा वासुक्यादयः। सर्पांस्ततोऽपकृष्टा अलगर्दादयः । सुपर्णा गरुडादयः । पितॄणामाज्यपादीनां गणः समूहः । एषां च भेद इतिहासादिप्रसिद्धो नाध्यक्षादिगोचरः॥ ३७ ॥

विद्युतोऽशनिमेघंश्च रोहितेन्द्रधनूंषि च ।
उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ ३८ ॥

विद्युत इति ॥ मेघेषु दृश्यं दीर्घाकारं ज्योतिर्विद्युत् । मेघादेव यज्योतिर्वृक्षादिविनाशकं तदशनिः । मेघाः प्रसिद्धाः । रोहितं दण्डाकारम् । नानावणे दिवि दृश्यते यज्योतिस्तदेव वक्रमिन्द्रधनुः । उल्का रेखाकारमन्तरिक्षात्पतज्योतिः । निर्घातो भूम्यन्तरिक्षगत उत्पातध्वनिः । केतवः शिखावन्ति ज्योतींषि उत्पातरूपाणि । अन्यानि ज्योतींषि ध्रुवागस्त्यादीनि नानाप्रकाराणि ॥ ३८ ॥

किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङ्गमान् ।
पशून्मृगान्मनुष्यांश्च व्यालांचोभयतोदतः ॥ ३९ ॥

किन्नरानिति ॥ किन्नरा अश्वमुखा देवयोनयो नरविग्रहाः । वानराः प्रसिद्धाः। मत्स्या रोहितादयः । विहङ्गमाः पक्षिणः । पशवो गवाद्याः । मृगा हरिणाद्याः । व्यालाः सिंहाद्याः । उभयतोदतः द्वे दन्तपटी येषां उत्तराधरे भवतः ॥ ३९ ॥

कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ ४०॥

कृमिकीटेति ॥ कीटाः कृमिभ्यः किंचित्स्थूलाः । पतङ्गाः शलभाः। यूकादयः प्रसिद्धाः । 'क्षुद्रजन्तवः' इत्यनेन एकवद्भावः । स्थावरं वृक्षलतादिभेदेन विविधप्रकारम् ॥ ४०॥

मनु० २