पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४३७ प्राणपरिक्षयम् ॥ एतच्चाज्ञानवधे प्रकृतत्वाधुगपन्मारणविषयम् । क्रममारणे तु 'विधेः प्राथमिकादस्मात्' इत्यावृत्तिविधायकं वेदवचनम् ॥ ८६ ॥ हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् । राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम् ॥ ८७॥ हत्वेति ॥ प्रकृतत्वाब्राह्मणगर्भविषयं स्त्रीपुंनपुंसकत्वेनाविज्ञातं क्षत्रियं वैश्यं च यागप्रवृत्तं हत्वा आत्रेयीं च स्त्रियं ब्राह्मणी 'तथात्रेयीं च ब्राह्मणीम् इति यमस्मरणात्। हत्वा ब्रह्महत्याप्रायश्चित्तं कुर्यात् । आत्रेयीच रजस्वला ऋतुस्नातोच्यते । रजस्वला- मृतुस्नातामात्रेयीम्' इनि वसिष्टस्मरणात् । एवं चानान्नेयीब्राह्मणीवधे त्रैवार्षिक- मुपपातकम् । यथोक्तम्-'स्त्रीशूद्रविदक्षत्रवधः' इति । यत्तूत्तरश्लोके 'कृत्वा च स्त्रींसुहृद्वधम्' इति तदाहिताग्निब्राह्मणस्य ब्राह्मणीभार्याविषयम् । तथा चाङ्गिराः -'आहिताग्नेाह्मणस्य हत्वा पत्नीमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयीनस्त- थैव च ॥ ८७ ॥ उक्त्वा चैवानृतं साक्ष्ये प्रतिरुद्ध्य गुरुं तथा । अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ८८ ॥ उक्त्वेति ॥ हिरण्यभूम्यादियुक्तसाक्ष्येऽनृतमुक्त्वा, गुरोश्च मिथ्याभिशापमु- त्पाद्य, निक्षेपं च ब्राह्मणसुवर्णादन्यद्रजतादि द्रव्यं क्षत्रियादेः सुवर्णमपि चापहृत्य, स्त्रीवधं च यथाज्याख्यातं कृत्वा मित्रं चाब्राह्मणं हत्वा ब्रह्महत्याप्रायश्चित्तं कु- यात् ॥ ८८॥ इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निप्कृतिन विधीयते ॥ ८९ ॥ इयमिति ॥ एतत्तु प्रायश्चित्तं विशेषोपदेशमन्तरेणाकामतो ब्राह्मणवधेऽभिहि- तम् । कामतस्तु ब्राह्मणवधे नेयं निष्कृतिनैतत्प्रायश्चित्तं किंत्वतो द्विगुणादिकर- णात्मकमिति प्रायश्चित्तगौरवार्थ नतु प्रायश्चित्ताभावार्थम् । 'कामतस्तु कृतं मोहा- यायश्चित्तैः पृथग्विधैः' इति पूर्वोक्तविरोधात् ॥ ८९ ॥ सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः॥९० ॥ सुरामिति ॥ सुराशब्दः पैष्टीमात्रे मुख्यो नतु गौडीमाध्वीषु त्रितयानुगतैक- रूपाभावात्प्रत्येकं च शक्तिकल्पने शक्तित्रयकल्पनागौरवप्रसङ्गात् । गौड्यादिमदि- रासु गुणवृत्त्यापि सुराशब्दप्रयोगोपपत्तेः । अतएव भविष्यपुराणे----'सुरा च पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे । पैष्टयाः पापेन चैतासां प्रायश्चित्तं निबो- धत ॥ यमेनोक्तं महाबाहो समासव्यासयोगतः ।' एतासामिति निर्धारणे षष्टी । एतासां गौडीमाध्वीपैष्टीनां प्रकृतानां मध्ये पैष्टीपाने मनूक्तं प्रायश्चित्तं सुरां पीत्वा द्विजो मोहादिति निबोधतेत्यर्थः । मुख्यां सुरां पैष्टी रागा-