पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ मनुस्मृतिः। [ अध्यायः १

तमसत्यं तदपि प्रायेण मनुष्याणाम् । तथाच श्रुतिः- 'सत्यवाचो देवा अनृतवाचो मनुष्याः' इति । तेपांमध्ये यत्कर्म स प्रजापतिः सर्गादौ यस्याधारयत्सृष्टयुत्तरकालमपि स तदेव कर्म प्राक्तनादृष्टवशात्स्वयमेव भेजे ॥ २९ ॥

अत्र दृष्टान्तमाह-

यथर्तुलिङ्गान्यृतवः स्वयमेवर्तुपर्यये ।
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः॥३०॥

यथर्त्विति ॥ यथा वसन्तादिऋतव ऋतुचिह्नानि चूतमञ्जर्यादीनि ऋतुपर्यये स्वकार्यावसरे स्वयमेवाप्नुवन्ति तथा देहिनोऽपि हिंस्रादीनि कर्माणि ॥ ३०॥

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ ३१ ॥

लोकानां त्विति ॥ भूरादीनां बाहुल्यार्थं मुखबाहूरुपादेभ्यो ब्राह्मणक्षत्रियवैश्यशूद्वान्यथाक्रम निर्मितवान् । ब्राह्मणादिभिः सायंप्रातरनावाहुतिः प्रक्षिप्ता सूर्यमुपतिष्ठते सूर्यावद्धृष्टिवृष्टेरन्नमन्नात्प्रजाबाहुल्यम् । वक्ष्यति च- 'अग्नौ प्रास्ताहुतिः सम्यगादित्यम्-' इत्यादि। दैव्या च शक्त्या मुखादिभ्यो ब्राह्मणादिनिर्माणम्। ब्राह्मणो न विशङ्कनीयः श्रुतिसिद्धत्वात् । तथाच श्रुतिः 'ब्राह्मणोऽस्य मुखमासीत्' इत्यादि ३१

द्विधा कृत्वात्मनो देहमर्चेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ ३२ ॥

द्विधा कृत्वेति ॥ स ब्रह्मा निजदेहं द्विखण्डं कृत्वा अर्धेन स्त्री तस्यां मैथुनधर्मेण विराट्संज्ञं पुरुषं निर्मितवान् । श्रुतिश्च- 'ततो विराडजायत' इति ॥ ३२॥

तपस्त्पप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् ।
तं मां वित्ताय सर्वस्य स्रष्टारं द्विजसत्तमाः ॥३३॥

तपस्तप्त्वेति ॥ स विराट् तपो विधाय यं निर्मितवान् तं मां मनुं जानीत अस्य सर्वस्य जगतः स्रष्टारं भो द्विजसत्तमाः । एतेन स्वजन्मोत्कर्षसामर्थ्यातिशयावभिहितवान् लोकानां प्रत्ययितप्रत्ययार्थम् ॥ ३३ ॥

अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।
पतीन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥

अहमिति ॥ अहं प्रजाः स्रष्टुमिच्छन् सुदुश्चरं तपस्ततप्त्वा दश प्रजापतीन्प्रथमं सृष्टवान् । तैरपि प्रजानां सृज्यमानत्वात् ॥ ३४ ॥

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥३५ ।।

मरीचिमित्यादि ॥ त एते दश प्रजापतयो नामतो निर्दिष्टाः ॥ ३५ ॥