पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४२७ [अन्नहीनो दहेद्राष्ट्र मन्त्रहीनस्तु ऋत्विजः । दीक्षितं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ॥] इन्द्रियाणीति ॥ चक्षुरादीनीन्द्रियाणि, जीवतः ख्यातिरूपं यशः, स्वगायुषी, मृतस्य ख्यातिरूपां कीर्ति, अपत्यानि, पशुंश्वाल्पदक्षिणो यज्ञो नाशयति । तस्माइ- ल्पदक्षिणादानेन यागं न कुर्यात् ॥ ४० ॥ अग्निहोत्र्यपविध्यानीन्ब्राह्मणः कामकारतः। चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् ।। ४१ ॥ अग्निहोत्रीति ॥ अग्निहोत्री ब्राह्मण इच्छातोऽनियु सायंप्रात)मानकृत्वा मासं चान्द्रायणं चरेत् । यस्माद्वीरः पुनस्तस्य हत्या हननं तत्तुल्यमेतत् । तथाच श्रुतिः-- “वीरहा वा एष देवानां भवति योऽग्निमुद्दासयते' अन्ये तु मासमपविध्येति समर्थयन्ति ॥ ४५ ॥ ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते । ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ ४२ ॥ येशूद्रादिति॥ये शूद्रादधिगम्यार्थ प्राप्य सामान्याभिधानेन याचनेन वार्थ स्त्री- कृत्य 'वृपलायुपसेविनाम्' इति वक्ष्यमाणलिङ्गादाधानपूर्वकमग्निहोत्रमनुतिष्ठन्ति ने शूद्राणामेव याजका नतु तेपां तत्फलं भवत्यतस्ते वेदवादिषु निन्दिताः॥४२॥ तेषां सततमज्ञानां वृषलाम्युपसेविनाम् । पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥ ४३ ॥ तेषामिति ॥ तेषां शूद्रधनाहिताग्निपरिचारिणां मूर्खाणां मूर्ध्नि पादं इत्या शूद्वस्तेन दानेन सततं परलोके दुःखेभ्यो निस्तरति नतु यजमानानां फलं भवति ॥ ४३ ॥ अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः॥४४॥ अकुर्वन्निति ॥ नित्यं यद्विहितं संध्योपासनादि, नैमित्तिकं च शवस्पर्शादी स्ना- नादि, तदकुर्वन् तथा प्रतिषिद्धं हिंसाधनुतिष्ठन्नविहितनिषिद्धेष्वत्यन्तासक्तिं कुर्व- नरो मनुष्यजातिमानं प्रायश्चित्तमर्हति । ननु इन्द्रियार्थेषु सर्वेषु न प्रसज्येत का- मतः' इति निषेधान्निन्दितपढ़ेनैव प्रसक्तश्चेन्द्रियार्थेवित्यपि संगृहीतमतः पृथक वक्तव्यम् । उच्यते । अस्य स्नातकव्रतेषु पाठात्तत्र 'व्रतानीमानि धारयेत्' इत्युप- क्रमान्नायं प्रतिषेधः किंतु व्रतविधिः । तर्हि 'अकुर्वन्विहितं कर्म' इत्यनेनैव प्राप्त- वात्पृथङ्ग वक्तव्यमिति चेन्न । स्नातकेतरविषयत्वेनास्य सविषयत्वात् ॥ ४४ ॥ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ४५ ॥