पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४२५ आपत्कल्पेन यो धर्म कुरुतेऽनापदि द्विजः। स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥२८॥ आपदिति ॥ आपद्विहितेन विधिना योऽनापदि धर्मानुष्टानं द्विजः कुरुते तस्य तत्परलोके निष्फलं भवतीति मन्वादिभिर्विचारितम् ॥ २८ ॥ विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः । आपत्सु मरणागीतैविधेः प्रतिनिधिः कृतः॥ २९ ॥ विश्वैरिति ॥ विश्वेदेवाख्यैर्देवैः साध्यैश्च तथा महर्षिभिाह्मणमरणाद्भीतैरापत्सु मुख्यस्य विधेः सोमादेवैश्वानर्यादिः प्रतिनिधिरनुष्टितोऽसौ मुख्यासंभवे कार्यों न तु सुख्यसंभवे ॥ २९ ॥ प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न सांपरायिकं तय दुर्मतेर्विद्यते फलम् ॥ ३० ॥ प्रभुरिति ॥ यो मुख्यानुष्ठानसंपन्नः सन्नापद्विहितेन प्रतिनिधिनानुष्ठानं करोति तस्य दुर्बुद्धेः पारलौकिकमभ्युदयरूपं प्रत्यवायपरिहारार्थं फलं च न भवति । 'आप- कल्पेन यो धर्मम्' इत्यनेनोक्तमप्येतच्छास्त्रादरार्थ पुनरुच्यते ॥ ३० ॥ न ब्राह्मणोऽवेदयेत किंचिद्राजनि धर्मवित् । स्ववीर्येणैव ताञ्छिष्यान्मानवानपकारिणः ॥३१॥ नेति ॥ धर्मज्ञो ब्राह्मणः किंचिदप्यपकृतं न राज्ञः कथयेत् । अपितु स्वशक्त्यैव वक्ष्यमाणाभिचारादिनापकारिणो मनुष्यान्निगृह्णीयात् । ततश्च स्वकीयधर्मविरोधा- दपकृष्टापराधकरणे सत्यभिचारादि न दोषायेत्येवंपरमेतत् । न त्वभिचारो विधी- यते राजनिवेदनं वा निषिध्यते ॥ ३१ ॥ खवीर्याद्राजवीर्याच स्ववीर्य बलवत्तरम् । तसात्स्खेनैव वीर्येण निगृह्णीयादरीन्द्विजः ॥३२॥ खवीर्यादिति ॥ यसारस्वसामर्थ्याद्वाजसामर्थ्याच्च पराधीनराजसामर्थ्यांपेक्षया म्वसामर्थ्यमेव स्वाधीनत्वादलीयः। तस्मात्स्वेन वीर्येणैव शत्रून्ब्राह्मणो निगृह्णीयात्॥ तत्कि स्ववीर्यमित्याह- श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् । वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्रिजः॥३३॥ [तदत्रं सर्ववर्णानामनिवार्य च शक्तितः । तपोवीर्यप्रभावेण अवध्यानपि बाधते ॥] श्रुतीरिति ॥ अथर्ववेदस्य आङ्गिरसीर्दुष्टाभिचारश्रुतीरविचारयन्कुर्यात् । तदर्थम- भिचारमनुतिष्टेदित्यर्थः । यस्मादभिचारमन्त्रोच्चारणात्मिका ब्राह्मणस्य वागेव शस्त्र- कार्यकरणाच्छस्त्रं तेन ब्राह्मणः शत्रून्हन्यान्नतु शत्रुनियमाय राजा वाच्यः ॥ ३३ ॥