मनुस्मृतिः।
[ अध्यायः ११
न तसिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः।
क्षत्रियस्य हि वालिश्याब्राह्मणः सीदति क्षुधा ॥२१ ।।
न तस्मिमिति ॥ तस्मिनुक्तनिमित्ते चौर्यबलात्कारं कुर्वाणे धर्मप्रधानो राजा
दण्डं न कुर्यात् । यस्माद्राज्ञो मूढत्वाद्राह्मणः क्षुधावसादं प्राप्नोति ॥२१॥
तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः।
श्रुतशीले च विज्ञाय वृत्तिं धयां प्रकल्पयेत् ॥ २२ ॥
ततश्च । तस्येति ॥ तस्य ब्राह्मणस्यावश्यभरणीयपुत्रादिवर्ग ज्ञात्वा श्रुताचारो-
चिततदनुरूपां वृत्तिं स्वगृहाद्राजा कल्पयेत् ॥ २२ ॥
कल्पयित्वास वृत्तिं च रक्षेदेनं समन्ततः ।
राजा हि धर्मषनागं तस्मात्प्राप्नोति रक्षितात् ॥ २३ ॥
कल्पयित्वेति ॥ अस्य ब्राह्मणस्य जीविकां विधाय शत्रुचौरादेः सर्वतो रक्षयेत् ।
यस्साब्राह्मणादक्षितात्तस्य धर्मषड्भागं प्राप्नोति ॥ २३ ॥
न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हिचित् ।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ २४ ॥
न यज्ञार्थमिति ॥ यज्ञसिद्धये धनं ब्राह्मणः कदाचिन्न शूद्राद्याचेत । यस्माच्छू-
दाद्याचित्वा यज्ञं कुर्वाणो मृतश्चण्डालो भवति । अतो याचननिषेधाच्छूद्रादयाचि.
तोपस्थितं यज्ञार्थमप्यविरुद्धम् ॥ २४ ॥
यज्ञार्थमर्थ भिक्षित्वा यो न सर्व प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः॥२५॥
यज्ञार्थमिति ॥ यज्ञसिद्ध्यर्थं धनं याचित्वा यो यज्ञे सर्व न विनियुङ्क्ते स शर्त
वर्षाणि भासत्वं काकत्वं वा प्राप्नोति ॥ २५॥
देवस्खं ब्राह्मणस्खं वा लोभेनोपहिनस्ति यः।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ २६ ॥
देवस्वमिति ॥ प्रतिमादिदेवतार्थमुत्सृष्टं धनं देवस्वं, ब्राह्मणवं च यो लोभादप-
हरति स पापस्वभावो जन्मान्तरे गृध्रोच्छिष्टेन जीवति ॥ २६ ॥
इष्टिं वैश्वानरी नित्यं निवपेदब्दपर्यये ।
क्लप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥२७॥
इष्टिमिति ॥ समाते वर्षे द्वितीयवर्पस्य प्रवृत्तिरब्दपर्ययं चैत्रशुक्लादिवर्षप्रवृत्ति-
स्तत्र वर्षान्तरे वैश्वानरीमिष्टिं विहितसोमयागासंभवे तदकरणदोपनिहरणार्थ सर्वदा
शूद्रादितोधनग्रहणेन उक्तरूपामिष्टिं कुर्यात् ॥ २७ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
