पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४२३ द्वाभ्यामाहरणीयं ब्राह्मणक्षत्रियाभ्यामपि ब्राह्मण आहरेत् । क्षत्रियस्य तु अदस्यु- क्रियावद्भाह्मणस्वहरणं निषेधयिष्यति ॥ १४ ॥ आदाननित्याच्चादातुराहरेदप्रयच्छतः । तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥१५॥ आदाननित्यादिति ॥ प्रतिग्रहादिना आदानं धनग्रहणं नित्यं यस्यासावादान- नित्यो ब्राह्मणस्तस्मादिष्टापूर्तदानरहिताद्यज्ञाङ्गद्वयत्रयार्थायां याचनायां कृतायामद- दतो बलेन चौर्येण वाहरेत् । तथा कृतेऽपहर्तुः ख्यातिः प्रकाशते धर्मश्च वृद्धिमेति ॥ १५॥ तथैव सप्तमे भक्ते भक्तानि षडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ १६ ॥ तथैवेति ॥ सायंप्रातर्भोजनोपदेशात्रिरात्रोपवासे वृत्ते चतुर्थेऽहनि प्रातः सप्तमे भक्त दानादिधर्मरहितादेकदिनपर्याप्तमर्थं चौर्यादिना हर्तव्यम् ॥ १६ ॥ खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ १७ ॥ खलादिति ॥ धान्यादिमर्दनस्थानाक्षेत्राद्वा गृहाद्वा यतो वान्यस्मात्प्रदेशाद्धान्यं हीनकर्मसंबन्धि लभ्यते ततो हर्तव्यं, यदि वासौ धनस्वामी पृच्छति किंनिमित्तं कृतमिति पृच्छते निमित्तं चौर्यादि वक्तव्यम् ॥ १७ ॥ ब्राह्मणस्खं न हर्तव्यं क्षत्रियेण कदाचन । दस्युनिष्क्रिययोस्तु स्वमजीवन्हर्तुमर्हति ॥ १८ ॥ ब्राह्मणस्वमिति ॥ उक्तेष्वपि निमित्तेषु क्षत्रियेण ब्राह्मणस्य धनं ततोऽपकृष्टत्वान्न हर्तव्यं, समानन्यायतया तु वैश्यशूद्राभ्यामुत्कृष्टजातितो न हर्तव्यम् । प्रतिषिद्धकृ- द्विहिताननुष्टायिनोः पुनर्ब्राह्मणक्षत्रिययोरत्यन्तापदि क्षत्रियो हर्तुमर्हति ॥ १८ ॥ योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति । स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ १९ ॥ योऽसाधुभ्य इति ॥ यो हीनकर्मादिभ्य उत्कृष्टेभ्योऽभिहितेष्वपि निमित्तेषूकानु- रूपं यज्ञाङ्गादि साधनं कृत्वा साधुभ्य उत्कृष्टेभ्य ऋत्विगादिभ्यो धनं ददाति स यस्यापहरति तदुरितं नाशयति यस्मै तद्ददाति तौर्गत्याभिघातादित्येवं द्वावप्या- त्मानमुडुपं कृत्वा दुःखान्मोचयति ॥ १९ ॥ यद्धनं यज्ञशीलानां देवखं तद्विदुर्बुधाः। अयज्वनां तु यद्वित्तमासुरखं तदुच्यते ।। २० ॥ यद्धनमिति ॥ यज्ञशीलानां यद्धनं तद्यागादौ विनियोगाद्देवस्वं विद्वांसो मन्यन्ते । यागादिशून्यानां तु यद्रव्यं तद्धर्मविनियोगाभावादासुरस्वमुच्यते । अतस्तदप्यप- हृत्य यागसंपादनात्तद्देवस्वं कर्तव्यम् ॥ २० ॥