पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ११

तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
सृष्टिं ससर्ज चैवेमा स्रष्टुमिच्छन्निमाः प्रजाः॥२५॥

तपो वाचमित्यादि । तपः प्राजापत्यादि वाचं वाणी रतिं चेतःपरितोषं काममिच्छां कोधं चेतोविकारं इमां एतच्छ्लोकोक्तां पूर्वश्लोकोक्तां च सृष्टिं चकार । मृज्यत इति सृष्टिः । कर्मणि क्तिन् । इमाः प्रजा वक्ष्यमाणा देवादिकाः कर्तुमिच्छन् ॥२५॥

कर्मणां च विवेकार्थं धर्माधर्मों व्यवेचयत् ।
द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ २६ ॥

कर्मणां चेति ॥ धर्मो यज्ञादिः स च कर्तव्यः अधर्मो ब्रह्मवधादिः स न कर्तव्यः इति कर्मणां विभागाय धर्माधर्मौ व्यवेचयत्पृथक्त्वेनाभ्यधात् । धर्मस्य फलं सुखं, अधर्मस्य फलं दुःखम्। धर्माधर्मफलभूतैर्द्वन्द्वैः परस्परविरुद्धैः सुखदुःखादिभिरिमाः प्रजा योजितवान् । आदिग्रहणात्कामक्रोधरागद्वेषक्षुत्पिपासाशोकमोहादिभिः॥२६॥

अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः।
ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ॥ २७ ॥

अण्व्यो मात्रा इति ॥ दशार्धानां पञ्चानां महाभूतानां याः सूक्ष्माः पञ्चतन्मात्ररूपा विनाशिन्यः पञ्चमहाभूतरूपतया विपरिणामिन्यः ताभिः सह उक्तं वक्ष्यमाणं चेदं सर्वमुत्पद्यते। अनुपूर्वशः क्रमेण । सूक्ष्मात्स्थूलं स्थूलात्स्थूलतरमित्यनेन सर्वशक्तेर्ब्रह्मणो मानससृष्टिः कदाचित्तत्त्वनिरपेक्षा स्यादितीमां शङ्कामपनिनीस्तहारणवेयं सृष्टिरिति मध्ये पुनः पूर्वोक्तं स्मारितवान् ॥ २७ ॥

यं तु कर्मणि यस्मिन्स न्ययुत प्रथमं प्रभुः।
स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः॥ २८॥

यं तु कर्मणीति ॥ स प्रजापतिर्यं जातिविशेष व्याघ्रादिकं यस्यां क्रियायां हरिणमारणादिकायां सृष्टयादौ नियुक्तवान् स जातिविशेषः पुनःपुनरपि सृज्यमानः स्वकर्मवशेन तदेवाचरितवान् । एतेन प्राणिकर्मसापेक्षं प्रजापतेरुत्तमाधमजातिनिर्माणं न रागद्वेषाधीनमिति दर्शितम् । अतएव वक्ष्यति 'यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम्' इति ॥ २८ ॥

एतदेव प्रपञ्चयति-

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ २९ ॥

हिंस्राहिंस्रे इत्यादि ॥ हिंस्रं कर्म सिंहादेः करिमारणादिकम् । अहिंस्रं हरिणादेः । मृदु दयाप्रधान विप्रादेः। क्रूरं क्षत्रियादेः। धर्मों यथा ब्रह्मचर्यादेः गुरुशुश्रूषादिः । अधर्मो यथा तस्यैव मांसमैथुनसेवनादिः । ऋतं सत्यं तच्च प्रायेण देवानाम् । अनृ-