पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। शिलोच्छमप्याददीत विमोऽजीवन्यतस्ततः। प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ ११२ ॥ शिलोञ्छमिति ॥ ब्राह्मणः स्ववृत्त्याऽजीवन्यतस्ततोऽपि शिलोच्छं गृह्णीयान्न तु तत्संभवेऽसत्प्रतिग्रहं कुर्यात् ।यस्मादसत्प्रतिग्रहाच्छिलः प्रशस्तः। मार्यात्मकानेक- धान्योन्नयनं शिलस्ततोऽप्युन्छः श्रेष्ठः । एकैकधान्यादिगुडकोच्चयनमुन्छः॥११२॥ सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः। याच्यः स्यात्स्नातकैविप्रैरदित्संस्त्यागमर्हति ॥ ११३ ॥ सीदद्भिरिति ॥ स्नातकैाह्मणैर्धनाभावाद्धार्थ कुटुम्बावसादं गच्छद्भिः सुवर्ण- रजतव्यतिरिक्तं धान्यवस्त्रादि कुप्यं धनं यागाद्युपयुक्तं हिरण्याद्यप्यापत्प्रकरणा- क्षत्रियोऽप्युच्छास्त्रवर्ती याचितव्यः स्यात् । यश्च दातुं नेच्छति कृपणत्वेनावधारितः स त्याज्यो न याचनीय इत्यर्थः । मेधातिथिगोविन्दराजौ तु 'त्यागमहतीति तस्य देशे न वस्तव्यम्' इति व्याचक्षाते ॥ ११३ ॥ अकृतं च कृतात्क्षेत्रागौरजाविकमेव च । हिरण्यं धान्यमन्नं च पूर्व पूर्वमदोषवत् ॥ ११४ ॥ अकृतं चेति ॥ अकृतमनुप्तसस्य क्षेत्रं तत्कृतादुप्तसस्यात्प्रतिग्रहे दोषरहितं तथा गोच्छागमेषहिरण्यधान्यसिद्धान्नानां मध्यात्पूर्व पूर्वमदुष्टम् । ततश्चैषां पूर्वपूर्वासं- भवे परः परो ज्ञेयः ॥ ११४ ॥ सप्त वित्तागमा धा दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥११५ ॥ सप्तेति ॥ दायाद्याः सप्त धनागमाः यथाधनाधिकारं धर्मादनपेताः तत्र दायोऽ- न्वयागतधनं, लाभो निध्यादेः मैत्र्यादिलब्धस्य च, क्रयः प्रसिद्धः, एते त्रयश्चतुर्णा- मपि वर्णानां धाः।जयधनं विजयत्वेन क्षत्रियस्य, धर्म्यः प्रयोगो वृझ्यादिधनस्य, कर्मयोगश्च कृषिवाणिज्ये, एतौ प्रयोगौ वैश्यधम्यौं, सत्प्रतिग्रहो ब्राह्मणस्य धर्म्यः। एवं चैतेषां धर्मत्ववचनादेतदभावेऽन्येष्वनापद्विहितेषु वृत्तिकर्मसु प्रवर्तितव्यम् । तदभावे चापद्विहितेषु प्रकृतेष्वित्येतदर्थमेतदिहोच्यते ॥ ११५ ॥ विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भेक्ष्यं कुसीदं च दश जीवनहेतवः॥ ११६ ॥ विद्येति ॥ आपत्प्रकरणाजीवनहेतव इति निर्देशार्दषां मध्ये यया वृत्त्या यस्या- नापदि न जीवनं तया तस्यापद्यभ्यनुज्ञायते । यथा ब्राह्मणस्य भृतिसेवादि । एवं शिल्पादावपि ज्ञेयम् । विद्या वेदविद्याव्यतिरिक्ता वैद्यतर्कविषापनयनादिविद्या सर्वेषामापदि जीवनाथै न दुष्यति । शिल्पं गन्धयुक्त्यादिकरणं, भृतिः प्रैष्यभावेन वेतनग्रहणं, सेवा पराज्ञासंपादनं, गोरक्ष्यं पशुपाल्यं, विपणिर्वणिज्या, कृषिः स्वयं