पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः १० वध्यांश्चेति ॥ वध्यांश्च शास्त्रानतिक्रमेण शूलारोपणादिना सर्वदा राजाज्ञया हन्युस्तद्वस्त्रशय्यालंकारांश्च गृह्णीयुः ॥ ५६ ॥ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । आर्यरूपमिवानार्य कर्मभिः स्वैर्विभावयेत् ॥ ५७ ॥ वांपेतमिति ॥ वर्णत्वादपेतं मनुष्यं संकरजातं लोकतस्तथात्वेनाविज्ञातमत- एवार्यसदृशं वस्तुतः पुनरनार्य, निन्दितयोन्यनुरूपाभिश्चेष्टाभिर्वक्ष्यमाणाभिर्नि- श्चिनुयात् ॥ ५७ ॥ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । पुरुष व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ ५८ ॥ अनार्यतेति ॥ निष्टुरत्वपरुषभापित्वहिंस्रत्वविहिताननुष्टातृत्वानि संकरजातित्वं असिल्लोके प्रकटीकुर्वन्ति ॥ ५८ ॥ पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा । न कथंचन दुर्योनिः प्रकृति स्वां नियच्छति ॥ ५९ ॥ यस्मात् । पित्र्यं वेति ॥ असौ संकरजातो दुष्टयोनिः पितृसंबन्धि दुष्टस्वभावत्वं सेवते मातृसंबन्धि वोभयसंबन्धि वा । न कदाचिदलावात्मकारणं गोपचितुं शक्नोति ॥ ५९ ॥ कुले मुख्येऽपि जातस्य यस स्सायोनिसंकरः। संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ ६० ॥ कुल इति ॥ महाकुलप्रसूतस्यापि यस्य योनिसंकरः प्रच्छन्नो भवति स मनुष्यो जनकस्वभावं स्तोकं प्रचुरं वा सेवत एव ॥ ६० ॥ यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः । राष्ट्रिकैः सह तद्राष्ट्र क्षिप्रमेव विनश्यति ॥ ६१ ॥ यत्रेति ॥ यस्मिन्राष्ट्रे एते वर्णसंकरा वर्णानां दूषका जायन्ते तद्राष्ट्र राष्ट्रवासि- जनैः सह शीघ्रमेव नाशमेति । तस्मादाज्ञा वर्णानां संकरो निरसनीयः ॥ ६ ॥ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः। स्त्रीवालाभ्युपपत्तौ च वाह्यानां सिद्धिकारणम् ॥ १२ ॥ ब्राह्मणार्थ इति ॥ गोब्राह्मणस्त्रीबालानामन्यतरस्यापि परित्राणार्थ दुष्टप्रयोज- नानपेक्षः प्राणत्यागः प्रतिलोमजानां स्वर्गप्राप्तिकारणम् ॥ ६२ ॥ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । ए सामासिक धर्म चार्तुवर्थेऽब्रवीन्मनुः ॥ ६३ ॥ अहिंसेत्यादि ॥ हिंसात्यागो, यथार्थाभिधानम्, अन्यायेन परधनस्याग्रहणं, मृजलादिना विशुद्धिः, इन्द्रियसंयम इत्येवं धर्म संक्षेपतश्चातुर्वर्ण्यानुष्ठेयं मनुराह। प्रकरणसामर्थ्यात्संकीर्णानामप्ययं धर्मों वेदितव्यः ॥ ६३ ॥