पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० मनुस्मृतिः। [अध्यायः १

जगत्सृष्टिव्युत्पादिता । तथाच शारीरकसूत्रम्-'शब्द इति चेन्नातःप्रभवात्प्रत्यक्षानुमानाभ्याम्'। अस्यार्थः। देवतानां विग्रहवत्त्वे वैदिके वस्वादिशब्दे देवतावाचिनी विरोधः स्याद्वेदस्यादिमत्त्वप्रसङ्गादिति चेन्नास्ति विरोधः। कस्मात् अतःशब्दादेव जगतः प्रभवादुत्पत्तेः प्रलयकालेऽपि सूक्ष्मरूपेण परमात्मनि वेदराशिः स्थितः स इह कल्पादौ हिरण्यगर्भस्य परमात्मन एव प्रथमदेहिमूर्तेर्मनस्यवस्थान्तरमनापन्नः सुप्तप्रबुद्धस्येव प्रादुर्भवति । तेन प्रदीपस्थानीयेन सुरनरतिर्यगादिप्रविभक्तं जगदभिधेयभूतं निर्मिमीते । कथमिदं गम्यते प्रत्यक्षानुमानाभ्यां । श्रुतिस्मृतिभ्यामित्यर्थः । प्रत्यक्षं श्रुतिरनपेक्षत्वात् । अनुमानं स्मृतिरनुमीयमानश्रुतिसापेक्षत्वात् । तथाच श्रुतिः-'एत इति प्रजापतिर्देवानसृजतासृनमिति मनुष्यानिन्दव इति पितॄस्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभि सौभगेत्यन्याः प्रजाः'। स्मृतिस्तु 'सर्वेषां तु स नामानि' इत्यादिका मन्वादिप्रणीतैव । पृथक्संस्थाश्चेति । लौकिकीश्च व्यवस्थाः कुलालस्य घटनिर्माण कुविन्दस्य पटनिर्माणमित्यादिकविभागेन निर्मितवान् ॥ २१ ॥

कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः ।
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ २२ ॥

कर्मात्मनां च देवानामित्यादि ॥ स ब्रह्मा देवानां गणमसृजत् । प्राणिनामिन्द्रादीनां कर्माणि आत्मा स्वभावो येषां तेषामग्राणिनां च ग्रावादीनां देवानां साध्यानां च देवाविशेषाणां समूहं यज्ञं च ज्योतिष्टोमादिकं कल्पान्तरेऽप्यनुमीयमानत्वान्नित्यम् । साध्यानां च गणस्य पृथग्वचनं सूक्ष्मत्वात् ॥ २२ ॥

ग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥२३॥

अग्निवायुरविभ्यस्त्वित्यादि ॥ ब्रह्म ऋग्यजुःसामसंज्ञं वेदत्रयं अग्निवायुरविभ्य आकृष्टवान् । सनातनं नित्यं । वेदापौरुषेयत्वपक्ष एव मनोरभिमतः । पूर्वकल्पे ये वेदास्त एव परमात्ममूर्ब्रह्मणः सर्वज्ञस्य स्मृत्यारूढाः। तानेव कल्पादौ अग्निवायुरविभ्य आचकर्ष । श्रौतश्चायमर्थों न शङ्कनीयः। तथाच श्रुति:--'अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेदः' इति । आकर्षणार्थत्वाद्दुहितोर्नाग्निवायुरचीणामकथितकर्मता किंत्वपादानतैव । यज्ञसिद्यर्थं त्रयीसंपाद्यत्वाद्यज्ञानां आपीनस्थक्षीरवद्विद्यमानानामेव वेदानामभिव्यक्तिप्रदर्शनार्थं आकर्षणवाचको गौणो दुहिः प्रयुक्तः ॥ २३ ॥

कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
सरितः सागराञ्छैलान्समानि विषमाणि च ॥ २४ ॥

कालं कालविभक्तीश्चेत्यादि । अत्र ससर्जेत्युत्तरश्लोकवर्तिनी क्रिया संबध्यते । आदित्यादिक्रियापचयरूपं कालं कालविभक्तीर्मासत्वयनाद्याः नक्षत्राणि कृत्तिकादीनि ग्रहान्सूर्यादीन् सरितो नदीः सागरान्समुद्रान् शैलान्पर्वतान् समानि समस्थानानि विषमाणि उच्चनीचरूपाणि ॥ २४ ॥