पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १० ] मन्वर्थमुक्तावलीसंवलिता। ४०३

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश्चातुर्वण्र्ये प्रम्यते ॥ ३०॥

यथैवेति ॥ यथा ब्राह्मण्यां शूद्रोऽपकृष्टं चण्डालाख्यं प्राणिनं प्रसूयते जनयत्येवं बाह्यश्वण्डालादिवर्णचतुष्टये चण्डालादिभ्योऽप्यपकृष्टं पुत्रं प्रसूयते ॥ ३० ॥

एतदेव विस्तारयति--

प्रतिकूलं वर्तमाना बाह्याबाह्यतरान्पुनः ।
हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु ॥ ३१ ॥

प्रतिकूलमिति ॥ अत्र मेधातिथिगोविन्दराजयोर्व्याख्यानं, चातुर्वर्ण्यबाह्याश्चण्डालक्षत्रायोगवाः शूद्रप्रभवास्त्रयश्चातुर्वर्ण्य गच्छन्त आत्मनो हीनतरान् परस्परापेक्षयापकृष्टोत्कृष्टवर्णप्रभवत्वात्पञ्चदशवर्णान्संपादयन्ति । तद्यथा चण्डालः शूद्रायामात्मनो हीनतरं वैश्याक्षत्रियात्राह्मणीजातेभ्य उत्कृष्टं जनयति, एवं वैश्यायां ततोऽप्यपसदं, क्षत्रियायां ब्राह्मणीजातादुत्कृष्टं जनयति, ततोऽपसदं क्षत्रियायांब्राह्मणीजातादुत्कृष्टं, ततोऽपि हीनं ब्राह्मण्यां जनयति । एवं क्षत्रायोगवावपि चातुर्वर्ण्ये चतुरश्चतुरो जनयतः । इत्येते शूद्रप्रभवचण्डालक्षत्रायोगवेभ्यश्चातुवर्ण्यद्वादशप्रभेदा उत्पद्यन्ते । आत्मना च चण्डालक्षत्रायोगवास्त्रय इत्येवं शूद्रप्रभवाः पञ्चदश उत्पद्यन्ते । एवं वैश्यक्षत्रियब्राह्मणप्रभवाः प्रत्येकं पञ्चदश संभवन्ति । एवं षष्टिश्चातुर्वर्ण्येन सह चतुःपष्टिप्रभेदा भवन्ति । ते तु परस्परगमनेन नानावर्णाञ्जनयन्तीति । नैतन्मनोहरम् । पूर्वश्लोके षण्णां प्रतिलोमजानां प्रकृतत्वात्तद्विस्तारकथनत्वाञ्चास्य । अत्रापि श्लोके प्रतिकूलं वर्तमाना इत्युपादानात्मनिलोमजमात्रविषयोऽयं श्लोको नानुलोमजविषयः । तथा च वैश्यक्षत्रियब्राह्मणप्रभवाश्च प्रत्येकं पञ्चदश संभवन्त्येवं पष्टिरिति न संगच्छते । नच संभवमात्रेणैवेयं पष्टिरुक्ता न दुष्टतया, शूद्रप्रभवायोगवक्षत्तुचण्डाला एव चातुर्वर्ण्यसंतानोपेताः पञ्चदश गर्हिता इति वाच्यम् । यतो वैश्यक्षत्रियाभ्यामपि प्रतिलोमत उत्पादितानां त्रयाणां हीनत्वात्तैरपि चातुर्वर्ण्य जनितानां गर्हितत्वस्य संभवात् 'तथा बाह्यतरं बाह्यश्चातुर्वर्ण्य प्रसूयते' इति मनुनैवानन्तरं स्फुटमुक्तत्वात् । युवाभ्यामपि तथैव व्याख्यातत्वाच्चातुर्वर्ण्यन सह चतुःषष्टिरिति सर्वथैवाप्रकृतम् । नहि संकीर्णप्रकरणे शुद्धचातुर्वर्ण्यगणनोचिता । किंच वर्णान्पञ्चदश प्रसूयन्त इति श्रूयमाणद्वादशजनानुक्त्वा ते चात्मना चण्डालक्षत्रायोगवास्त्रय इत्येवं शूद्रप्रभवाः पञ्चदशेति न युक्तम् । अपि चात्मना सह पञ्चदश संपादयन्तीति न संगच्छते । असंपाद्यत्वादात्मनः पञ्चदश संपद्यन्त इति च व्याख्यानेऽध्याहार एव दोषस्तस्मादेवं व्याख्यायते । प्रतिकूलं वर्तमानाः प्रतिलोमजाः बाह्याः, द्विजप्रतिलोमजेभ्यो निकृष्टस्वात् । शूद्रप्रभवायोगवक्षत्तृचण्डालास्त्रयः । पूर्वश्लोकादनुवर्तमाने चातुर्वण्र्ये स्वजातौ ‘एते षट् सदृशान्' इत्यत्र सजात्युत्पन्नस्य पितृतो गर्हितत्वाभिधानादात्मापेक्षया बाह्यान्तरान्प्रत्येकं पञ्चदश पुत्राञ्जनयन्ति । तद्यथा आयोगवश्वातुर्वर्ण्यस्त्रीषु