पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। ४०१ जात इति ॥ निषादाच्छूद्रायां जातो जात्या पुक्कसो भवति । निषाद्यां पुनः शूद्राद्यो जातः स कुक्कुटकनामा स्मृतः ॥ १८ ॥ क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते । वैदेहकेन त्वम्बष्ट्यामुत्पन्नो वेण उच्यते ॥ १९ ॥ क्षत्तुरिति ॥ शूद्रेण वैश्यायां जातः क्षत्ता। क्षत्रियेण शूद्रायां जाता उग्रा । तेन तस्यां जातः श्वपाक इत्युच्यते । वैदेहकेनाम्बध्या ब्राह्मणेन वैश्याजातायां वेण इति कथ्यते ॥ १९ ॥ द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान्सावित्रीपरिभ्रष्टान्त्रात्यानिति विनिर्दिशेत् ॥ २० ॥ द्विजातय इति ॥ द्विजातयः सवर्णासु स्वीषु यान्पुत्रानुत्पादयन्ते ते चेदुपनय- नाख्यव्रतहीना भवन्ति तदा तानकृतोपनयनान्त्रात्येत्यनया संज्ञया व्यपदिशेत् । 'अत ऊर्ध्वं त्रयोऽप्येते' इत्युक्तमपि ब्रात्यलक्षणं प्रतिलोमजपुत्रवदस्याप्युपकारा- क्षमपुत्रत्वप्रदर्शनार्थमस्मिन्संकीर्णप्रकरणेऽनुदितम् ॥ २० ॥ त्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ २१ ॥ ब्रात्यादिति ॥ ब्रात्याद्राह्मणात् 'सवर्णासु' इत्यनुवृत्तेाह्मण्यां पापस्वभावो भू- जंकण्टको जायते । तथा आवन्त्यवाटधानपुष्पधशैखा जायन्ते । एकस्य चैतानि देशभेदप्रसिद्धानि नामानि ॥ २१ ॥ झल्लो मल्लश्च राजन्याद्वात्यानिच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड एव च ॥ २२ ॥ झल्लो मल्लश्चेति ॥ क्षत्रियाद्रात्यात्सवर्णायां झल्लमल्लनिच्छिविनटकरणखसवि- डाख्या जायन्ते । एतान्यप्येकस्यैव नामानि ॥ २२ ॥ वैश्यात्तु जायते ब्रात्यात्सुधन्वाचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ २३ ॥ वैश्यात्विति ॥ वैश्यात्पुनात्यात्सवर्णायां सुधन्वाचार्यकारुषविजन्ममैत्रसात्व- ताख्या जायन्ते । एकस्य चैतान्यपि नामानि ॥ २३ ॥ व्यभिचारेण वर्णानामवेद्यावेदनेन च । खकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥ २४ ॥ व्यभिचारेणेति ॥ ब्राह्मणादिवर्णानामन्योन्यस्त्रीगमनेन, सगोत्रादिविवाहेन, उपनयनरूपस्वकर्मत्यागेन, वर्णसंकरो नाम जायते । अतो युक्तमस्मिन्प्रकरणे ब्रा- त्यानामभिधानम् ॥ २४ ॥