पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरब्य- माता- ४०० मनुस्मृतिः। [ अध्यायः १० शूद्रादिति ॥ शूद्राद्वैश्याक्षत्रियाब्राह्मणीषु क्रमेणायोगवः क्षत्ता नृणामधमश्च. पडालश्च वर्णानां संकरो येषु जनयितव्येषु ते वर्णसंकरा जायन्ते ॥ १२॥ एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ । क्षत्तृवैदेहको तद्वत्मातिलोम्येऽपि जन्मनि ॥ १३ ॥ एकान्तर इति ॥ एकान्तरेऽपि वर्णे ब्राह्मणाद्वैश्यकन्यायामम्बष्टः, क्षत्रियाच्छू- द्रकन्यायामुग्रः, एतावानुलोम्येन यथा स्पर्शाद्यहौं तद्वदेकान्तरे प्रतिलोमजनने- ऽपि शूद्राक्षत्रियायां क्षत्ता, वैश्याब्राह्मण्यां वैदेहः, एतावपि स्पर्शादियोग्यौ वि. यो । एकान्तरोत्पन्नयोः स्पर्शाद्यनुज्ञानादनन्तरोत्पन्नानां सूतमागधायोगवानां स्पर्शादियोग्यत्वकोद्धं भवति । अतश्चण्डाल एवैकः प्रतिलोमतः स्पर्शादी निरस्यते ॥ १३॥ पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते ॥ १४ ॥ पुत्रा इति ॥ मातुर्दोषादिति हेतूपन्यासादनन्तरग्रहणमनन्तरवच्चैकान्तर न्तरप्रदर्शनार्थं । ये द्विजातीनामनन्तरकान्तरड्यन्तरजातिस्त्रीप्वानुलोम्येनोत्पन्नाः पूर्वमुक्ताः पुत्रास्तान्हीनजातिमातृदोषान्मातृजातिव्यपदेश्यानाचक्षते । पितृव्यतिरिक्तसंकीर्णजातित्वेऽप्येषां मातृजातिव्यपदेशकथनं मातृजातिसंस्कारा- दिधर्मप्राप्त्यर्थम् ॥ १४ ॥ ब्राह्मणादुरकन्यायामातो नाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः॥१५॥ ब्राह्मणादिति ॥ क्षत्रियेण शूदायामुत्पन्नोग्रा उग्रा चासौ कन्या चेत्युग्रकन्या तस्यां ब्राह्मणादावृतनामा जायते । ब्राह्मणेन वैश्यायामुत्पन्नाम्बष्ठा तस्यां ब्राह्म- णादाभीराख्यो जायते । शूद्रेण वैश्यायामुत्पन्ना आयोगवी तस्यां ब्राह्मणाद्धि- ग्वणो जायते ॥ १५॥ आयोगवश्व क्षत्ता च चण्डालवाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदात्रयः॥ १६ ॥ आयोगवश्चेति ॥ योगवः क्षत्ता चण्डालश्च मनुष्याणामधम इत्येते त्रयो व्युत्क्रमेण वैश्याक्षत्रियाब्राह्मणीषु पुत्रकार्यादपगतात्रयः शूद्वाजायन्ते। पुत्रकार्या- क्षमत्वप्रतिपादनार्थमुक्तानामप्येषां पुनर्वचनम् । एवमुत्तरश्लोकोक्तानामपि॥१६॥ वैश्यान्मागधवैदेही क्षत्रियात्सूत एव तु । प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः॥१७॥ वैश्यादिति ॥ क्षत्रियाब्राह्मण्योगिधवैदेही क्षत्रियाद्राह्मण्यां सूत इत्येवं प्रा- तिलोम्येनापरेऽपि त्रयः पुत्रकार्यादपसदा जायन्ते ॥ १७ ॥ जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राजातो निषाद्यां तु स वै कुकुटकः स्मृतः॥ १८ ॥