पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। ३९९ मूर्धावसिक्तमाहिष्यकरणाख्यानि याज्ञवल्क्यादिभिरुक्तानि, वृत्तयश्चैपामुशन- सोक्ताः-हस्त्यश्वरथशिक्षा अवधारणं च मूर्धावसिक्तानां, नृत्यगीतनक्षत्रजीवनं सस्यरक्षा च माहिष्याणां, द्विजातिशुश्रूषा धनधान्याध्यक्षता राजसेवादुर्गान्तः पुररक्षा च पारशवोग्रकरणानामिति ॥ ६॥ अनन्तरासु जातानां विधिरेष सनातनः। व्येकान्तरासु जातानां धर्म्य विद्यादिमं विधिम् ॥७॥ अनन्तरास्विति ॥ एष पारम्पर्यागततया नित्यो विधिरनन्तरजातिमार्योत्पन्नाना- मुक्तः एकेन द्वाभ्यां च वर्णाभ्यां व्यवहितासूत्पन्नानां यथा ब्राह्मणेन वैश्यायां क्ष- त्रियेण शूद्रायां ब्राह्मणेन शूद्रायामिमं वक्ष्यमाणं धर्मादनपेतंरिजानीयात् ॥७॥ ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥८॥ ब्राह्मणादिति ॥ कन्याग्रहणादत्रोढायामित्यध्याहार्यम् । विन्नास्वेष विधिः स्मृतः' इति याज्ञवल्क्येन स्फुटीकृतत्वाच्च। ब्राह्मणाद्वैश्यकन्यायामूढायामम्बष्ठाख्यो जायते। शूद्रकन्यायामूढायां निषाद उत्पद्यते । यः संज्ञान्तरेण पारशवश्चोच्यते ॥ ८॥ क्षत्रियाच्छ्द्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥९॥ क्षत्रियादिति ॥ क्षत्रियाच्छूद्रकम्यायामूढायां क्रूरचेष्टः क्रूरकर्मरतिश्च क्षत्रशू- द्रस्वभाव उपाख्यः पुत्रो जायते ॥ ९॥ विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः॥१०॥ विप्रस्येति ॥ ब्राह्मणस्य क्षत्रियादित्रयस्त्रीषु, क्षत्रियस्य वैश्यादिवर्णद्वयोः स्त्रियोः, वैश्यस्य च शूद्रायां, वर्णत्रयाणामेते षद पुत्राः सवर्णपुत्रकार्यापेक्षयापसदा अवसन्ना निकृष्टाः स्युः ॥ १० ॥ एवमनुलोमानुक्त्वा प्रतिलोमानाह- क्षत्रियाद्विप्रकन्यायां मूतो भवति जातितः । वैश्यान्मागधवैदेही राजविप्राङ्गनासुतौ ॥ ११॥ क्षत्रियादिति ॥ अत्र विवाहासंभवात्कन्याग्रहणं स्त्रीमात्रप्रदर्शनार्थम् । अत्रैव श्लोके राजविप्राङ्गनासुताविति ब्राह्मण्यां क्षत्रियाजात्या सूतनामा संजायते। वैश्याद्यथाक्रमं क्षत्रियाब्राह्मण्योगिधवैदेहाख्यौ पुत्रौ भवतः । एपां च वृत्तयो मनुनैवाभिधास्यन्ते ॥ ११ ॥ शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविपासु जायन्ते वर्णसंकराः॥१२॥