पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ९

तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।

मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १८ ॥

तदाविशन्ति भूतानीत्यादि । पूर्वश्लोके तस्येति प्रकृतं ब्रह्मात्र तदिति परामृश्यते। तद्ब्रह्म शब्दादिपञ्चतन्मात्रात्मनावस्थितं महाभूतान्याकाशादिनि आविशन्ति तेभ्य उत्पद्यन्ते । सह कर्मभिः स्वकार्येस्तत्राकाशस्यावकाशदानं कर्म वायोयूहनं विन्यासरूपं तेजसः पाकोऽपां संग्रहणं पिण्डीकरणरूपं पृथिव्या धारणं । अहंकारात्मनावस्थितं ब्रह्म मन आविशति । अहंकारादुत्पद्यत इत्यर्थः । अवयवैः स्वकार्यैः शुभाशुभसंकल्पसुखदुःखादिरूपैः सूक्ष्मैवहिरिन्द्रियागोचरैः सर्वभूतकृत्सर्वोत्पत्तिनिमित्तं मनोजन्यशुभाशुभकर्मप्रभवत्वाजगतः । अव्ययमविनाशि ॥ १८ ॥

तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।

सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाव्द्ययम् ॥ १९ ॥

तेषामिदं तु सप्तानामित्यादि ॥ तेषां पूर्वप्रकृतीनां महदहंकारतन्मात्राणां सप्तसंख्यानां पुरुषादात्मन उत्पन्नत्वात्तद्वृत्तिग्राह्यत्वाच्च पुरुषाणां महौजसा स्वकार्यसंपादनेन वीर्यवतां सूक्ष्मा या मूर्तिमात्राः शरीरसंपादकभागास्ताभ्य इदं जगन्नश्वरं संभवत्यनश्वराद्यत्कार्यं तद्विनाशि स्वकारणे लीयते । कारणं तु कार्यापेक्षया स्थिरम् । परमकारणं तु ब्रह्म नित्यमुपासनीयमित्येतद्दर्शयितुमयमनुवादः ॥ १९ ॥

आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः।

यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः॥२०॥

आद्याद्यस्य गुणं त्वेषामित्यादि ॥ एषामिति पूर्वतरश्लोके 'तदाविशन्ति भूतानि' इत्यत्र भूतानां परामर्शः। तेषां चाकाशादिक्रमणोत्पत्तिक्रमः, शब्दादिगुणवत्ता च वक्ष्यते । तत्राद्याद्यस्याकाशादेर्गुणं शब्दादिकं वायवादिः परः परः प्राप्नोति । एतदेव स्पष्टयति-यो य इति ॥ एषां मध्ये यो यो यावतां पूरणो यावतिथः 'वतोरिथुक्' स स द्वितीयादिः द्वितीयो द्विगुणः तृतीयस्त्रिगुण इत्येवमादिमन्वादिभिः स्मृतः । एतेनैतदुक्तं भवति । आकाशस्य शब्दो गुणः, वायोः शब्दस्पशौं; तेजसः शब्दस्पर्शरूपाणि, अपां शब्दस्पर्शरूपरसाः, भूमेः शब्दस्पर्शरूपरसगन्धाः । अत्र यद्यपि 'नित्यवीप्सयोः' इति द्विर्वचनेनाद्यस्याद्यस्येति प्राप्तं तथापि स्मृतीनां छन्दःसमानविषयत्वात् 'सुपां सुलुक्' इति प्रथमाद्यस्य सुब्लुक् तेनाद्याद्यस्येति रूपसिद्धिः ॥ २०॥

सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।

वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ २१ ॥

सर्वेषां तु स नामानीत्यादि ॥ स परमात्मा हिरण्यगर्भरूपेणावस्थितः सर्वेषां नामानि गोजातेगौरिति अश्वजातेरश्व इति । कर्माणि ब्राह्मणस्याध्ययनादीनि, क्षत्रियस्य प्रजारक्षादीनि । पृथक् पृथक् यस्य पूर्वकल्पे यान्यभूवन् । आदौ सृष्ट्यादौ वेदशब्देभ्य एवावगम्य निर्मितवान् । भगवता व्यासेनापि वेदमीमांसायां वेदपूर्विकैव