पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


घ्यायः ९] मन्वर्थमुक्तावलीसंवलिता। तथाच । अन्य इति ॥ जलब्राह्मणपाषाणेभ्योऽग्निक्षत्रियशस्त्राणि जातानि संबन्धि तेजः सर्वत्र दहनाभिभवच्छेदनार्थकं कार्य करोति । स्वकारणेषु ब्राह्मणपाषाणाख्येषु दहनाभिभवच्छेदनात्मकं कार्य न करोति ॥ ३२१ ॥ नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते । ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ॥ ३२२ ॥ नेति ॥ ब्राह्मणरहितक्षत्रियो वृद्धि न याति, शान्तिकपौष्टिकव्यवहारेक्षणादिध- वेरहात् । एवं क्षत्रियरहितोऽपि ब्राह्मणो न वर्धते, रक्षां विना यागादिकर्मानि- त्तेः । किंतु ब्राह्मणः क्षत्रियश्च परस्परसंबद्ध एवेह लोके परलोके च धर्मार्थकाम- क्षावाल्या बृद्धिमेति । दण्डप्रकरणे चेयं ब्राह्मणस्तुतिर्बाह्मणानामपराधिनामपि बुदण्डप्रयोगनियमार्था ॥ ३२२ ॥ यदा तु विशिष्टदर्शनेनाचिकित्स्यव्याधिना वासन्नमृत्युर्भवति तदा-- दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥ ३२३ ॥ दत्वेति ॥ महापातकिव्यतिरिक्तविनियुक्तावशिष्टसर्वदण्डधनंब्राह्मणेभ्यो दत्त्वा, ब्रे राज्यं समासन्नमृत्युः फलातिशयप्राप्तये-संग्रामे प्राणत्यागं कुर्यात् । संग्रा- संभवे त्वनशनादिनापि ॥ ३२३ ॥ एवं चरन्सदा युक्तो राजधर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् ॥ ३२४ ॥ एवमिति ॥ एवमध्यायनयोक्तराजधर्मेपु व्यवहार्यमाणो राजा सर्वदा यत्नवान्प्र- हितेषु सर्वान्भृत्यान्विनियोजयेत् ॥ ३२४ ॥ एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः । इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः ॥ ३२५ ॥ एप इति ॥ एतद्वाज्ञः कर्मानुष्टानं पारंपर्यागततया नित्यं समग्रमुक्तम् । इदानीं श्यशूटुक्रमेण वक्ष्यमाणमिदं कर्मानुष्टानं जानीयात् ॥ ३२५ ॥ वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वातायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे ॥ ३२६ ॥ वैश्यस्त्विति ॥ वैश्यः कृतोपनयनपर्यन्तसंस्कारो विवाहादिकं कृत्वा जीविकायां क्ष्यिमाणायां कृष्यादिकार्यार्थ पशुपालने च सदा समायुक्तः स्यात् । पशुरक्षणस्य त्वेिऽपि प्राधान्यख्यापनार्थं पृथग्विधानम् । तथा चोत्तरश्लोकाभ्यां प्राधान्यं दर्शयति ॥ ३२६॥ प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ ३२७ ॥ 11