पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ मनुस्मृतिः। [अध्यायः९ तथाहि । यैरिति ॥ यैाह्मणैरभिशापेन सर्वभक्ष्योऽग्निः कृतः, समुद्रश्वाय- जलश्चन्द्रश्च क्षययुक्तः पश्चात्पूरितस्तान्कोपयित्वा को न नश्येत् ॥ ३१४ ॥ लोकानन्यान्सृजेयुर्ये लोकपालांश्च कोपिताः देवान्कुर्युरदेवांश्च कः क्षिण्वंस्तान्समृध्नुयात् ॥ ३१५ ॥ किंच। लोकानिति ॥ ये स्वर्गादिलोकान्परानन्यांश्च लोकपालान्सृजन्तीति संभा- व्यते। देवांश्च शापेन मानुषादीन्कुर्वन्ति तान्पीडयन्कः समृद्धिं प्राप्नुयात् ॥३१५॥ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा । ब्रह्म चैव धनं येषां को हिंस्यात्ताञ्जिजीविषुः ॥ ३१६ ॥ अपिच ।यानित्यादि॥यान्ब्राह्मणान्यजनयाजनकर्तृकानाश्रित्य 'अग्नौ प्रास्ताहुतिः' इति न्यायेन पृथिव्यादिलोका देवाश्च स्थितिं लभन्ते, वेद एव च येषां धनमभ्युदय- साधनतया याजनाध्यापनादिना धनोपायत्वाच्च, ताञ्जीवितुमिच्छन्को हिंस्यात् ३१६ एवं तर्हि विद्वांसं ब्राह्मणं सेवेतेत्यत आह- अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ३१७ ॥ अविद्वानिति ॥ यथाहितोऽनाहितो वाग्निर्महती देवता एवं मूखौं विद्वांश्च प्रकृष्टा देवतेति ॥ ३१७ ॥ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥ ३१८ ॥ श्मशानेष्वित्यादि ॥ यथाग्निर्महातेजाः श्मशाने शवं दहन्कार्येऽपि नैव दुष्टो भवति किंतु पुनरपि यज्ञेषु हूयमानोऽभिवर्धते ॥ ३१८ ॥ एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु । सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ ३१९ ॥ एवं यद्यपीति ॥ एवं कुत्सितकर्मस्वपि सर्वेषु यद्यपि ब्राह्मणाः प्रवर्तन्ते तथापि सर्वप्रकारेण पूज्याः । यस्मात् प्रकृष्टं तदैवतम् । स्तुत्यर्थत्वाच्चास्य न यथाश्रुतार्थ- विरोधः शङ्कनीयः ॥ ३१९ ॥ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान्प्रति सर्वशः। ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ ३२० ॥ क्षत्रस्यति ॥ क्षत्रियस्य ब्राह्मणान्प्रति सर्वथा पीडानुवृत्तस्य ब्राह्मणा एव शापा- भिचारादिना सम्यङियन्तारः । यस्मात्क्षत्रियो ब्राह्मणात्संभूतः, ब्राह्मणबाहुप्रसूत- त्वात् ।। ३२० ॥ अद्भ्योऽग्निब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ३२१॥