पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३९३ वरुणेन यथा पाशैर्वद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयातमेतद्धि वारुणम् ॥ ३०८ ॥ वरुणेनेति ॥ यो वरुणस्य रज्जुभिर्बन्धयितुमिष्टः स यथा तेनाविशङ्कितः पाशै- बंद्ध एव लक्ष्यते । तथा पापकारिणोऽविशङ्कितानेव यावन्न पारयन्ते तावच्छास- येत् । यस्मादेतदस्य वारुणं व्रतम् ॥ ३०८ ॥ परिपूर्ण यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन्स चान्द्रव्रतिको नृपः॥३०९॥ परिपूर्णमिति ॥ यथा पूर्णेन्दुदर्शनेन मनुष्या हर्षमुत्पादयन्त्येवममात्यादयो. यस्मिन्दृष्टे तुष्टिमुपगच्छन्ति स चन्द्राचारचारी नरेन्द्रः ॥ ३०९ ॥ प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥ ३१० ॥ प्रतापयुक्त इत्यादि ॥ पापकारिषु सदा दण्डपातेन प्रचण्डोऽनलसः स्यात्तथा प्रतिकूलामात्यहिंसनशीलो भवेत् । तदस्याग्निसंबन्धि व्रतं स्मृतम् ॥ ३१० ॥ यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ ३११॥ यथेति ॥ यथा पृथिवी सर्वाण्युच्चावचानि स्थावरजङ्गमान्युत्कृष्टापकृष्टानि समं कृत्वा धारयते तद्वद्विद्वद्धनिकगुणवद्भूतानि तदितराणि च दीनानाथादिसर्वभूतानि रक्षणधनदानादिना सामान्येन धारयतः पृथिवीसंबन्धि व्रतं भवति ॥ ३११ ॥ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः। स्तेनान्राजा निगृह्णीयात्स्वराष्ट्र पर एव च ॥ ३१२ ॥ एतैरिति ॥ एतैरुक्तोपायैरन्यैश्चानुक्तैरपि स्वबुद्धिप्रयुक्तो राजानलसः सन् स्वराष्ट्रे ये चौरा वसन्ति, च परराष्ट्रे वसन्तस्तद्देशमागत्य मुष्णन्ति, तानुभयप्रका- रान्निगृह्णीयात् । 'सोऽग्निर्भवति वायुश्च' इत्यादिना पूर्व सिद्धवदुक्तमग्यादिरूपत्व- मिह तु तद्गुणयोगेन स्फुटीकृतमित्यपुनरुक्तिः ॥ ३१२ ॥ परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ३१३ ॥ परमिति ॥ कोशक्षयादिना प्रकृष्टामप्यापदं प्राप्तो राजा ब्राह्मणान्न प्रकोपयेत् । यस्मात्ते रुष्टाः सवलवाहनमेनं सद्य एव शापाभिचाराभ्यां हन्युः ॥ ३१३ ॥ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः। क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ३१४