पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। (पत्तिः । एवं राष्ट्रादुर्गनाशोऽपि, दुर्गादेव यवसेन्धनादिसंपन्नाद्राज्यरक्षासिद्धिः । दुर्गादमात्यो गरीयान्, प्रधानामात्यनाशे सर्वाङ्गवैकल्यात् । अमात्यादप्यात्मा, सर्वस्यात्मार्थत्वात् । तस्मादुत्तरापेक्षया पूर्व यत्नतो रक्षेत् ॥ २९५ ॥ सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यान्न किंचिदतिरिच्यते ॥ २९६ ॥ सप्ताङ्गस्येति ॥ उक्तसप्ताङ्गवतो लोके राष्ट्रस्य त्रिदण्डवदन्योन्यसंबन्धस्य परस्प- रविलक्षणोपकारणान्न किंचिदङ्गमधिकं भवति । यद्यपि पूर्वश्लोके पूर्वपूर्वाङ्गस्याधि- क्यमुक्तं तथाप्येषामङ्गानांमध्यादन्यस्याङ्गसंबन्धिनमपकारमन्यदङ्गं कर्तुं न शक्नोति, तस्मादुत्तरोत्तराङ्गमप्यपेक्षणीयमित्येवंपरोऽयमाधिक्यनिषेधः । अत्र प्रसिद्धं यतिनि. दण्डमेव दृष्टान्तः । तद्धि चतुरङ्गुलगोवालवेष्टनादन्योन्यसंबन्धं, न च तन्मध्ये त्रिदण्डधारणशास्त्रार्थे कश्चिद्दण्डोऽधिको भवति ॥ २९६ ॥ तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते । येन यत्साध्यते कार्य तत्तसिञ्श्रेष्ठमुच्यते ॥ २९७ ॥ तेष्विति ॥ यस्मात्तेषु तेषु संपायेषु कार्येषु तत्तदङ्गस्यातिशयो भवति, तत्कार्य- मन्येन कर्तुमशक्तेः । एवंच येनाङ्गेन यत्कार्य संपाद्यते तस्मिन्कार्य तदेव प्रधान- मुच्यते । ततश्चान्योन्यगुणविशेपादि यदुक्तं तदेवानेन स्फुटीकृतम् ॥ २९७ ॥ चारणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥ २९८ ॥ चारेणेति ॥ सप्तमाध्यायोक्तकापटिकादिना बलस्योत्साहयोगेन कर्मणां च हस्ति- बन्धवणिक्पथादीनामनुष्टानेन जातां शत्रोरात्मनश्च शक्तिं राजा सदा जानी- यात् ॥ २९८ ॥ पीडनानि च सर्वाणि व्यसनानि तथैव च । आरभेत ततः कार्य संचिन्त्य गुरुलाघवम् ॥ २९९ ॥ पीडनानीति ॥ पीडनानि मारकादीनि कामक्रोधोद्भवानि, दुःखानि च स्वपरच- ऋगतानि तेषां च गुरुलघुभावं पर्यालोच्य संधिविग्रहादि कार्यमारभेत ॥ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः। कर्माण्यारभमाणं हि पुरुषं श्रीनिषेवते ॥ ३०० ॥ आरभेतेति ॥ राजा स्वराज्यवृद्धिपरापचयनिमित्तानि कार्याणि कथंचिदिदं संजा- तमिति छलान्यप्यारभ्यात्मना खिन्नः पुनःपुनस्तान्यारभेतैव । यस्मात्कर्माणि सृज्य- मानं पुरुपं श्रीनितरां सेवते । तथा नाब्राह्मणे नानाश्रये श्रीरस्तीति प्ररोहितापि शोषमेति, नच युगानुरूपेण कर्माणि फलन्तीति राज्ञोदासितव्यम् ॥ ३०० ॥ कृतं त्रेतायुगं चैव द्वापरं कलिरेव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥३०१॥ ९९॥