पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ मनुस्मृतिः । [ अध्यायः ९ सम्यनिविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः। कण्टकोद्धरणे नित्यमातिष्ठेद्यनमुत्तमम् ॥ २५२ ।। सम्यगिति ॥ 'जाङ्गलं सस्यसंपन्नम्' इत्युक्तरीत्या सम्यगाश्रितदेशस्तत्र सप्तमा- ध्यायोक्तप्रकारेण कृतदुर्गश्चौरसाहसिकादिकण्टकनिराकरणे प्रकृतं यत्रं सदा कु- र्यात् ॥ २५२ ॥ रक्षणादायवृत्तानां कण्टकानां च शोधनात् । नरेन्द्राखिदिवं यान्ति प्रजापालनतत्पराः॥२५३ ॥ रक्षणादिति ॥ यस्मात्साध्वाचाराणां रक्षणाच्चोरादीनां च शासनात्प्रजापालन- युक्ता राजानः स्वर्ग गच्छन्ति । तस्मात्कण्टकोद्धरणे यत्नं कुर्यात् ॥ २५३ ॥ अशासंस्तस्करान्यस्तु बलिं गृह्णाति पार्थिवः। तस्य प्रक्षुभ्यते राष्ट्र वर्गाच परिहीयते ॥२५४ ॥ अशासन्निति ॥ यथा पुनर्नृपतिश्चौरादीननिराकुर्वन् पड्भागायुक्तं करं गृह्णानि तसै राष्ट्रवासिनो जनाः कुप्यन्ति । कर्मान्तरार्जिताप्यस्य स्वर्गप्राप्तिरनेन दुष्कृतेन प्रतिबध्यते ॥ २५४ ॥ निर्भयं तु भवेद्यस्य राष्ट्र बाहुबलाश्रितम् । तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ॥२५५ ॥ निर्भयमिति ॥ यस्य राज्ञो बाहुवीर्याश्रयेण राष्ट्र चौरादिभयरहितं भवति तस्य नित्यं तद्वृद्धिं गच्छति । उदकसेकेनेव वृक्षः ॥ २५५ ॥ द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥२५६ ॥ द्विविधानिति ॥ चार एव चौरज्ञानहेतुत्वाच्चक्षुरिव यस्यासौ राजा, चारैरेव प्रकटतया गूढतया द्विप्रकारन्यायेन परधनग्राहिणो जानीयात् ॥ २५६ ॥ प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः॥२५७ ।। प्रकाशेति ॥ तेषां पुनश्चौरादीनां मध्याघे तुलाप्रतिमानलोष्टचयादिना हिरण्या- दिपण्यविक्रयिणः परधनमनुचितेन गृह्णन्ति ते प्रकाशवञ्चकाः स्तेनाश्चौराः सद्वि- च्छेदादिना गुप्ताटव्याश्रयाश्च परधनं गृह्णन्ति ते प्रच्छन्नवञ्चकाः ॥ २५७ ॥ उत्कोचकाचीपधिका वञ्चकाः कितवास्तथा । मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह ॥ २५८ ॥ असम्यकारिणश्चैव महामात्राश्चिकित्सकाः। शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः॥ २५९ ॥