पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३८० मनुस्मृतिः। [अध्यायः कितवान्कुशीलवान्क्रूरान्पापण्डस्थांश्च मानवान् । विकर्मस्थाञ्छौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ २२५ ।। कितवानिति ॥ द्यूतादिसेविनो, नर्तकगायकान् , वेदविद्विषः, श्रुतिस्मृतिबाह्य- व्रतधारिणः, अनापदि परकर्मजीविनः, शौण्डिकान्सद्यकरान्मनुष्यान् क्षिप्रं राजा राष्ट्रान्निर्वासयेदिति । कितवप्रसङ्गेनान्येषामप्यभिधानम् ॥ २२५ ॥ अत्र हेतुमाह- एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः । विकर्मक्रियया नित्यं वाधन्ते भद्रिकाः प्रजाः ॥२२६ ॥ एत इति ॥ एते कितवादयो गूढचौरा राष्ट्रे वसन्तो नित्यं वञ्चनात्मकक्रियया सजनान्पीडयन्ति ॥ २२६ ॥ द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत् । तसाद्द्यूतं न सेवेत हास्वार्थमपि बुद्धिमान् ॥ २२७ ॥ द्यूतमिति ॥ नेदानीमेव परं किंतु पूर्वस्मिन्नपि कल्पे चूतमेतदतिशयेन वैरकर दृष्टम् । अतः प्राज्ञः परिहासार्थमपि तन्न सेवेत ॥ २२७ ॥ प्रच्छन्नं वा प्रकाशं वा तनिषेवेत यो नरः। तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥ २२८ ॥ प्रच्छन्नमिति ॥ यो मनुष्यस्तद्द्यूतं गूढं प्रकटं वा कृत्वा सेवेत तस्य यथा नृपते- रिच्छा भवति तथाविधो दण्डो भवति ॥ २२८ ॥ इदानी पराजितानां धनाभाचे सतीदमाह- क्षत्रविद्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः ॥ २२९ ॥ क्षत्रेति ॥ क्षत्रवैश्यशूद्रजातीयो निर्धनत्वेन दण्डं दातुमसमर्थस्तदुचितकर्मकरणे- न दण्डशोधनं कुर्यात् । ब्राह्मणः पुनर्यथालाभं क्रमेण दद्यान्न कर्म कारयितव्यः २२९ स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । शिफाविदलरवाद्यैर्विदध्यान्नृपतिर्दमम् ॥ २३०॥ स्त्रीति ॥ स्वीबालादीनां पुनः शिफावेणुदलप्रहाररजुबन्धनादिभिर्दमनं राजा कुर्यात् ॥ २३०॥ ये नियुक्तास्तु कार्येषु हन्युः कार्याणि धनोष्मणा पच्यमानास्तानिःस्वान्कारयेन्नृपः॥ २३१ ॥ ये नियुक्तास्त्विति ॥ ये व्यवहारावेक्षणादिषु कार्येषु राज्ञा नियुक्ता उत्कोच धनतेजसा विकारं भजन्तः स्वाम्यादीनां कार्य नाशयेयुस्तान्गृहीतसर्वस्वान् राज कारयेत् ॥ २३ ॥