पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ७

यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥११॥

यत्तत्कारणमव्यक्तमित्यादि ॥ यत्तदितिसर्वनामभ्यां लोकवेदादिसर्वप्रसिद्धं परमात्मानं निर्दिशति । कारणं सर्वोत्पत्तिमतां । अव्यक्तं बहिरिन्द्रियागोचरं । नित्यं उत्पत्तिविनाशरहितम् । वेदान्तसिद्धत्वात्सत्स्वभावम् प्रत्यक्षाद्यगोचरत्वादसत्स्व- भावमिव । अथवा सद्भावजातं असदभावस्तयोरात्मभूतम् । तथाच श्रुतिः- 'ऐतदात्म्यमिदं सर्वम्' इति । तद्विसृष्टस्तेनोत्पादितः स पुरुषः सर्वत्र ब्रह्मोति कीर्त्यते ॥ १५ ॥

तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥ १२॥


तस्मिन्नण्डे स भगवानित्यादि । तस्मिन् पूर्वोक्तेऽण्डे स ब्रह्मा वक्ष्यमाणब्रह्ममानेन संवत्सरमुषित्वा स्थित्वा आत्मनैवाण्डं द्विधा भवत्वित्यात्मगतध्यानमात्रेण तदण्डं द्विखण्डं कृतवान् ॥ १२ ॥

ताभ्यां स शकलाभ्यां च दिवं भूमि च निर्ममे
मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ १३॥

ताभ्यां स शकलाभ्यां चेत्यादि ॥ शकलं खण्डं ताभ्यामण्डशकलाभ्यां उत्तरेण दिवं स्वर्लोकमधरेण भूलोकं उभयोर्मध्ये आकाशं दिशश्चान्तरालदिग्भिः सहाष्टौ समुद्राख्यं अपां स्थानं स्थिरं निर्मितवान् ॥ १३ ॥

इदानीं महदादिक्रमेणैव जगन्निर्माणमिति दर्शयितुं तत्तत्सृष्टिमाह-

उद्भवात्मनश्चैव मनः सदसदात्मकम् ।
मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ १४ ॥

उद्धबर्हात्मनश्चैवेत्यादि॥ ब्रह्मा आत्मनः परमात्मनः सकाशात्तेन रूपेण मन उद्धतवान् । परमात्मन एव ब्रह्मस्वरूपेणोत्पन्नत्वात्परमात्मन एव च मनःसृष्टिवेदान्तदर्शने न प्रधानात् । तथाच श्रुतिः-'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥' मनश्च श्रुतिसिद्धत्वाद्युगपज्ज्ञानानुत्पत्तिलिङ्गाच्च सत् अप्रत्यक्षत्वादसदिति मनसः पूर्वमहंकारतत्त्वं अहमित्यभिमानाख्यकार्ययुक्तं ईश्वरं स्वकार्यकरणक्षमम् ॥ १४ ॥

महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतृणि शनैः पञ्चेन्द्रियाणि च ॥१५॥

महान्तमेव चात्मानमित्यादि ॥ महान्तमिति महदाख्यतत्त्वमहंकारात्पूर्वं परमास्मन एवाव्याकृताक्तिरूपप्रकृतिसहितादुद्धृतवान् । आत्मन उत्पन्नत्वात् आत्मानमात्मोपकारकत्वाद्वा । यान्यभिहितानि अभिधास्यन्ते च तान्युत्पत्तिमन्ति सर्वाणि सत्त्वरजस्तमोगुणयुक्तानि विषयाणां शब्दस्पर्शरूपरसगन्धानां ग्राहकाणि शनैः