३७४
मनुस्मृतिः।
[ अ
अहार्थं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः।
इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः॥१८९ ॥
अहार्यमिति ॥ ब्राह्मणसंबन्धि धनं न राज्ञा कदाचिद्राह्यमिति शा
किंतूक्तलक्षणब्राह्मणाभावे ब्राह्मणमात्रेभ्योऽपि देयम् । क्षत्रिया
पूर्वोक्तरिक्थहराभावे राजा गृह्णीयात् ॥ १८९ ॥
संस्थितस्यानपत्यस्यस गोत्रात्पुत्रमाहरेत् ।
तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत् ॥ १
संस्थितस्येति ॥ अनपत्यस्य मृतस्य भार्या समानगोत्रात्पुंसो गुर्जा
नियोगधर्मेण पुत्रमुत्पादयेत् । तस्मिन्मृतविषये यद्धनजातं भवेत्तत्तरि
पैयेत् । 'देवराद्वा सपिण्डाद्वा' इत्युक्तत्वात् । सगोत्रान्नियोगप्राप्त्यरं
रिक्थभागित्वार्थमिदम् ॥ १९० ॥
द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने
तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृहीत नेतरः॥१
द्वाविति ॥ 'यद्येकरिक्थिनौ स्याताम्' इत्यौरसक्षेत्रजयोरुक्तम्, इदं
परि
चविषयम् । यदोत्पन्नौरसभर्तुर्मूतत्वादालापत्यतया स्वामिधनं स्वीकृत्य
सकाशात्पुत्रान्तरं जनयेत्तस्यापि च पौनर्भवस्य भर्तुर्मूतत्वाद्रिक्थहरान
गृहीतवती, पश्चात्तौ द्वाभ्यां जातौ यदि विवदेयातां स्त्रीहस्तगतधने
र्यस्य यजनकस्य धनं स तदेव गृह्णीयान्न त्वन्यपितृजोऽन्यजनकस्य ।
जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ १
जनन्यामिति ॥ मातरि मृतायां सोदर्यभ्रातरो भगिन्यश्च सोदर्या
। ऊढास्तु धनानुरूपं संमानं लभन्ते । तदाह बृहस
स्यादपत्यानां दुहिता तदंशिनी । अपुत्रा चेत्समूढा तु लभते म
ततश्चानूढानां पितृधन इवा मातृधनं भात्रा स्वादशाच्चतुर्थभागे
यास्तासां स्युर्दुहितरस्तासामपि यथाहतः।
मातामह्या धनात्किचित्प्रदेयं प्रीतिपूर्वकम् ॥
या इति ॥ तासां दुहितॄणां या अनूदा दुहितरस्ताभ्योऽपि मात
तासां पूजा भवति तथा प्रीत्या किंचिहातव्यम् ॥ १९३ ॥
अध्यम्यध्यावाहनिकं दत्तं च श्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधने स्मृतम् ।।
अध्यनीति ॥ अध्यग्नीति 'अव्ययं विभक्तिसमीप- इत्यादिसू
व्ययीभावः । विवाहकाले अग्निसंनिधौ यत्पिन्नादिदत्तं तदध्यग्नि स्त्र
कात्यायनः-'विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तद
स्त्रीधनं परिकीर्तितम् ॥' यत्तु पितृगृहाद्भर्तुर्गृहं
,
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
