पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३७३ अनन्तर इति ॥ अस्य सामान्यवचनस्योक्तौरसादिपिण्डमात्रविषयत्वे वैयर्थ्या- त्ततश्चानुक्तपत्न्यादिदायप्राप्त्यर्थमिदम् । सपिण्डमध्यात्संनिकृष्टतरो यः सपिण्डः पुमान् स्त्री वा तस्य मृतधनं भवति । तत्र 'एकैवौरसः पुत्रः' इत्युक्तत्वात्सा एव मृतधने स्वाधिकारी । क्षेत्रजगुणवद्दत्तकयोस्तु यथोक्तं पञ्चमं पष्टं वा भागं दद्यात्। कृत्रिमादिपुत्राणां संवर्धनमात्रं कुर्यात् । औरसाभावे पुत्रिका तत्पुत्रश्च 'दौहित्र एव च हरेदपुत्रस्याखिलं धनम्' इत्युक्तत्वादौरसपुत्ररहित एव तत्रापुत्रो विव- क्षितः । तनावे क्षेत्रजादय एकादश पुत्राः क्रमेण पितृधनाधिकारिणः । परिणी- तशूद्रापुत्रस्तु दशमभागमात्राधिकारी 'नाधिकं दशमाद्दद्याच्छूद्रापुत्राय' इत्याधु- क्तत्वात् । दशमभागावशिष्टं धनं संनिकृष्टसपिण्डो गृह्णीयात् । त्रयोदशविधपुत्रा- भावे पत्नी सर्वभर्तृधनभागिनी । यदाह याज्ञवल्क्यः-पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रतो बन्धुः शिष्यः सब्रह्मचारिणः ॥ एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेप्वयं विधिः ॥' बृहस्पतिरप्याह- 'आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः। शरीराधैं स्मृता जाया पुण्यापुण्य पनं फले समा॥ यस्य नोपरता भार्या देहार्धं तस्य जीवति । जीवत्यर्धशरीरे तु कथमन् स्वमाप्नुयात् ॥ सकुल्यैर्विद्यमानैस्तु पितृमातृसनाभिभिः । अपुत्रस्य प्रमीतस्य पर तद्भागहारिणी ॥ पूर्वप्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् । विन्देत्पतिव्रता नारी धर्म एष सनातनः ।। जङ्गमं स्थावरं हेम कुप्यं धान्यमथाम्बरम् । आदाय दापये- च्छ्राद्धं मासशाण्मासिकादिकम् ॥ पितृव्यगुरुदौहित्रान्भर्तृस्वस्त्रीयमातुलान् । पूजये- कव्यपूर्ताभ्यां वृद्धानप्यतिथीस्त्रियः ॥ तत्सपिण्डा बान्धवा वा ये तस्याः परिप- न्थिनः । हिंस्युर्धनानि तानाजा चौरदण्डेन शासयेत् ॥' वृद्धमनुः-'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पल्येव दद्यात्तत्पिण्डं कृत्स्नमथै लभेत च ॥' यदुक्तम्- 'स्त्रीणां तु जीवनं दद्यात्' इतिसंवर्धनमात्रवचनं, तद्दुःशीलाधार्मिकसविकारयौवन- स्थपत्नीविषयम् । अतो यन्मेधातिथिना पत्नीनामंशभागित्वं निषिद्धमुहं तदसंबर द्धम् । पत्नीनामंशभागित्वं बृहस्पत्यादिसंमतम् । मेधाविधिनिराकुर्वन्न प्रीणाति सतां मनः ॥' पल्यभावेऽप्यपुत्रिका दुहिता तदभातेद्ध ता माता च तयोरभावे सोदर्यभ्राता तदभावे तत्सुतः । 'मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम्' इति वक्ष्यमाणत्वात् । पितृमाता तदभावेऽन्योऽपि संनिकृष्टसपिण्डो मृतधनं गृह्णीयात् । एव । तदप्युक्तम् । अत अर्व सपिण्डसंतानाभावे समानोदक आचार्यः शिष्यश्च क्रमेण धनं गृह्णीयात् ॥ १८७ ।। सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः । विद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ १८८ ॥ सर्वेषामिति ॥ एषामभाव इति वक्तव्ये सर्वेपामभाव इतियदुक्तं तत्सब्रह्मचार्या- देरपि धनहारित्वार्थम् । सर्वेषामभावे ब्राह्मणा वेदत्रयाध्यायिनो बाह्यान्तरशौ- चयुक्ता जितेन्द्रिया धनहारिणो भवन्ति त एव च पिण्डदाः, तथा सति धनिनो मृतस्य श्राद्धादिधर्महानिर्न भवति ॥ १८ ॥ मनु० ३२ तद्यथा