पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ मनुस्मृतिः । [अध्यायः १

सोऽभिध्यायेति ॥स परमात्मा नानाविधाः प्रजाः सिसृक्षुरभिध्यायापो जायन्तामित्यभिध्यानमात्रेणाप एव ससर्ज । अभिध्यानपूर्विकां सृष्टिं वदतो मनोः प्रकृतिरेवाचेतनाऽस्वतन्त्रा परिणमत इत्ययं पक्षो न संमतः, किंतु ब्रह्मैवाव्याकृतशक्त्यात्मना जगत्कारणमिति बिदण्डिवेदान्तसिद्धान्त एवाभिमतः प्रतिभाति। तथाच छान्दोग्योपनिपत्- 'तदैक्षत बहु स्यां प्रजायेय' इति । अतएव शारीरकसूत्रकृता व्यासेन सिद्धान्तितम् 'ईक्षतेर्नाशब्दम्' इति । ईक्षतेरीक्षणश्रवणान्न प्रधानं जगत्कारणम् । अशब्दं न विद्यते शब्दः श्रुतिर्यस्य तदशब्दमिति सूत्रार्थः । स्वाच्छरीराव्याकृतरूपादव्याकृतमेव भगवद्भास्करीयवेदान्तदर्शने प्रकृतिः, तदेव तस्य च शरीरं अव्याकृतशब्देन पञ्चभूतबुद्धीन्द्रियकर्मेन्द्रियप्राणमनःकर्माविद्यावासना एव सूक्ष्मरूपतया शक्त्यात्मना स्थिता अभिधीयन्ते । अव्याकृतस्य च ब्रह्मणा सह भेदाभेदस्वीकाराब्रह्माद्वैतं, शक्त्यात्मना च ब्रह्म जगद्रूपतया परिणमत इत्युभयमप्युपपद्यते । आदौ स्वकार्यभूमिब्रह्माण्डसृष्टेः प्राक् । अपां सृष्टिश्चेयं महदहंकारतन्मात्रक्रमेण बोद्धव्या । महाभूतादि व्यञ्जयन्निति पूर्वाभिधानादनन्तरमपि महदादिसृष्टेर्वक्ष्यमाणत्वात् । तास्वप्सु बीजं शक्तिरूपं आरोपितवान् ॥ ८ ॥

तदण्डमभवद्धेमं सहस्रांशुसमप्रभम् ।
तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥९॥

तदण्डमभवद्धेममिति ॥ तद्बीजं परमेश्वरेच्छया हैममण्डमभवत् । हैममिव हैमं शुद्धिगुणयोगान्न तु हैममेव । तदीयैकशकलेन भूमिनिर्माणस्य वक्ष्यमाणत्वात् । भूमेश्चाहैमत्वस्य प्रत्यक्षत्वादुपचाराश्रयणम् । सहस्रांशुरादित्यस्तत्तुल्यप्रभ तस्मिन्नण्डे हिरण्यगर्भो जातवान् । येन पूर्वजन्मनि हिरण्यगर्भोऽहमस्मीति भेदाभेदभावनया परमेश्वरोपासना कृता तदीयं लिङ्गशरीरावच्छिन्नजीवमनुप्रविश्य स्वयं परमात्मैव हिरण्यगर्भरूपतया प्रादुर्भूतः । सर्वलोकानां पितामहो जनकः, सर्वलोकपितामह इति वा तस्य नाम ॥ ९॥

इदानीमागमप्रसिद्धनारायणशब्दार्थनिर्वचनेनोक्तमेवार्थ द्रढयति-

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्व तेन नारायणः स्मृतः॥१०॥

आपो नारा इत्यादि ॥ आपो नाराशब्देनोच्यन्ते । अप्सु नाराशब्दस्याप्रसिद्धेस्तदर्थमाह- यतस्ता नराख्यस्य परमात्मनः सूनवोऽपत्यानि । 'तस्येदम्' इत्यणप्रत्ययः । यद्यपि अणि कृते ङीप्प्रत्ययः प्राप्तस्तथापि छान्दसलक्षणैरपि स्मृतिषु व्यवहारात् 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति पाक्षिको डीप्प्रत्ययस्तस्याभावपक्षे सामान्यलक्षणप्राप्ते टापि कृते नारा इति रूपसिद्धिः। आपोऽस्य परमात्मनो ब्रह्मरूपेणावस्थितस्य पूर्वमयनमाश्रय इत्यसौ नारायण इत्यागमेष्वासातः । गोविन्दराजेन तु आपो नरा इति पठितं व्याख्यातं च । नरायण इति प्राप्ते 'अन्येषामपि दृश्यते' इति दीर्घत्वेन नारायण इति रूपम् । अन्ये त्वापो नारा इति पठन्ति ॥१०॥