पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


(२) अथ धर्मः स्थितिहेतुरितिराद्धान्तिते को धर्म इति जिज्ञासापरिहाराय धर्मश व्दार्थो मीमासितव्यो भवति । तत्र 'चोदनालक्षणोऽर्थों धर्मः' इति भीमा सकाः । इदमिहानेनाधिकारिणा कर्तव्यमिति विधिविहितो यागादिर्धर्म इति तेषामा शयः। इमे च कमैव कत्रित्युद्धोपयन्ति । 'धर्माधर्मावदृष्टं स्यात्' इत्येषा तार्किक समयदिक् । 'अयं हि परमो धर्मों यद्योगेनात्मदर्शनम्' इति ब्रह्मज्ञानमपि धर्मशब्देन व्यपदिश्यते । 'आचारः परमो धर्मः' इति तु संप्रदायविद तदेतेषु सर्वेप्वपि पक्षेषु इष्टप्राप्यनिष्टपरिहारालौकिकोपायत्वं न व्यभिचरतीति इष्टप्रात्यनिएपरिहारालौकिकोपायो धर्मः इति सिद्धम् । तत्रैतादृशालौकिकमुपायं धर्ममजानानाः सर्वे जना अस्मिन्नतिभीपणेऽनाद्यनन्तागा घसंसारपारावारे मजनोन्मज्जनाच्या विह्वलीभवन्तीति सवीक्ष्य परमकारुणिकैः सर्वज्ञ पूर्वीचाबहवो धर्मग्रन्था अनायासेन तत्पारगमने नौकायमाना विनिर्ममिरे । सत्ता तेषु सम्यग्धर्मप्रतिपादकेषु, सर्वतः प्रमेयप्रवणत्वेनासंदिग्धार्थत्वेन च ज्येष्ठत्वेन च मानवधर्मानुशासनं मनुस्मृत्यपराभिधेय मौलिभूतमतिरमणीयतरं विलसतितमाम् यदतिप्राचीनो मानवसृष्टेः परमजनको भगवान्सुगृहीतनामा मनुः समुपदिदेश । पुरा किल मृणालधौतायतफणापत्याभोगपर्यॐ वरुणालयेऽधिशयानो भगवान्पुर णपुरुषः कालाख्यखशक्तिलब्धक्रियो लोकानपीतान्दृष्ट्वा लोकान्सृजामीतीक्षाचके।तर स्तस्यान्तःप्रविष्टः सूक्ष्मोऽर्थः कालानुगतेन रजोगुणेन नाभिदेशादुद्भूतः पद्मकोशोऽ. त् । तत्र खयमेव प्रविश्य नामरूपात्मना व्यक्तो बभूव, य स्वयंभुव विधातारं वदन्ति स च क्वापि लोकादर्शनेन संजातस्मयश्चतुर्दिक्षु विवृत्तनेत्रश्चत्वारिमुखानि लेभे। खयभूब्रह्मा, किमधिष्टान आसे; कथमिदमनन्यदजनालमगाधे सलिलनिधावि चकितमनास्तजनालनाडीभिरन्तः प्रविश्यापि चिराय तदाधारं नाविन्दत । तर Sलब्धकामो दूयमानचेतास्तत्प्रतिपत्त्यर्थ जितश्वासनिवृत्तसंकल्पः सन्भगवति पर पुरुष चेतोऽयुनक् । कालेन चान्तर्हृदयेऽवभातमपूर्वदृष्ट दिव्य पुरुष ददर्श । विसर भिमुखश्च तिसूक्षया तमभ्यष्टोत् । अवाङ्मनसगोचरं च तं परमं यावन्मनोय स्तुत्वा यदा खिन्नवद्विरराम तदा तदभिप्रेतमन्वीक्ष्य भूयोऽपि तपस्तप्त्वा यथा सर्गोयममावहेति तत्कश्मल शमयन्निव मेघगम्भीरया वाचाभिधाय खयमन्तर्दधे गवान् । ततः स्वयंभूः पितामह आत्मन्यात्मानमाविश्य दिव्यं वर्षशतं तप वा लोकान्कल्पय इत्यचिन्तयत् । अत्राक्षीचान्धतमसमोहमहामोहादीनि । तत पापीयसी सृष्टि दृष्ट्वात्मानमकृतार्थ मन्वानो भगवद्ध्यानपूतेन चेतसा सनकसनन्द दीनुत्सृज्य प्रजाः सृजतेति तानुवाच । ते च परमानन्दैकरसे रमानाथेऽन्वमोद प्रजाकामादीनच्छन् । अथ रुद्रं मरीच्यत्र्यङ्गिरसपुलस्त्यऋतुभृगुवसिष्ठदक्षनारदा वीर्यवत्तरान्विसृज्यापि तेभ्यः सर्गविस्तारमपश्यतो दैवमत्र प्रतिबन्धकमित्यवेट भगवतः खयंभुवो रूपं द्वेधाभूत् । ताभ्यां च रूपविभागाभ्यां मिथुन समपद्य यस्तत्र पुमान्स स्वायंभुवो मनुः, या च स्त्री सा शतरूपानाम्नी तस्य सहधर्मचारि सीत् । ताभ्या चाणीयसो बीजान्यग्रोध इव वंशवृक्षोऽवरीवृध्यत । तथाहि-६ रूपायां खायंभुवो मनुः प्रियव्रतोत्तानपादौ पुत्रो, आकूतिर्देवहूतिः प्रतिश्चेति प .