पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ९]] मन्वर्थमुक्तावलीसंवलिता। ३६५ गोत्ररिक्थानुगामी यस्य गोत्ररिक्थे भजते तस्यैव स पिण्डो दीयते । तस्मात्पुत्रं दृढतो जनकस्य स्वधापिण्डश्राद्धादि तत्पुत्रकर्तृकं निवर्तते ॥ १४२ ॥ अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् । उभौ तौ नाहतो भागं जारजातककामजौ ॥ १४३ ॥ अनियुक्तेति ॥ यो गुर्वादिनियोग विना जातो यश्च सपुत्राया नियोगेनापि देवरादेः कामादुत्पादितस्तावुभौ क्रमेण जारोत्पन्नकामाभिलाषजौ धनभागं नार्हतः ॥ १४३ ॥ नियुक्तायामपि पुमानार्या जातोऽविधानतः । नैवाहः पैतृकं रिक्थं पतितोत्पादितो हि सः॥ १४४ ॥ नियुक्तायामिति ॥ नियुक्तायामपि स्त्रियां घृताभ्यक्तत्वादिनियोगेतिकर्तव्यतां विना पुत्रो जातः स क्षेत्रिकस्य पितुर्धनं लब्धं नाहति । यस्मादसौ पतितेनोल्पा- दितः । 'नियुक्तौ यो विधि हित्वा' इत्यनेन पतितस्योक्तत्वात् ॥ १४४ ॥ हरत्तत्र नियुक्तायां जातः पुत्रो यथौरसः। क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः॥ १४५॥ हरेदिति ॥ तत्र नियुक्तायां यो जातः क्षेत्रजः पुत्र औरस इव धनं हरेत् । यस्मात्तत्तस्य कारणभूतं बीजं तत्क्षेत्रस्वामिन एव, तत्कार्यकरणत्वात् । अपत्यमपि च धर्मतस्तदीयं तत् ‘यवीचाअयेष्टभार्यायां पुत्रमुत्पादयेद्यदि' इत्यनेन क्षेत्रजस्य पितामहधने पितृव्येन सह समभागभ्य प्रोक्तत्वात् ।-गुणवतः क्षेत्रजस्य औरसव- रस्वोद्धारभागप्राप्त्यर्थमिदमौरसतुल्यत्वाभिधानम् ॥ १४५॥ धनं यो विभृयाद्भातुर्मृतस्य स्त्रियमेव च । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥ १४६ ॥ धनमिति ॥ यो मृतस्य भ्रातुः स्थावरजङ्गमं धनं पल्या रक्षणाक्षमया समर्पित रक्षेत्तां च पुष्णीयात्स नियोगधर्मेण तस्यामुत्पादितस्य भ्रातुरपत्यस्य दद्यात् । एतच्च 'धनं यो बिभृयाद्रातुः' इत्यभिधानाद्विभक्तभ्रातृविषयम्, 'यवीयाख्येष्ठभार्या- याम्' इति समभागाभिधानात् ॥ १४६ ॥ या नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयात् । तं कामजमरिक्थीयं वृथोत्पन्न प्रचक्षते ॥ १४७॥ येति ॥ या स्त्री गुर्वादिभिरनुज्ञाता देवराद्वान्यतो वा सपिण्डात्पुत्रमुत्पाद- येत्स यदि कामजो भवति तदा तमरिक्थभाजं मन्वादयो वदन्ति । अकामज । स च व्याहृतो नारदेन-'मुखान्मुखं परिहरन्गात्रैर्गात्राण्यसं- स्पृशन् । कुले तदवशेषे च संतानार्थ न कामतः ॥' इति ॥ १४७ ॥