पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० मनुस्मृतिः । [अध्यायः ९ स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदार्धातरः पृथक् । वात्स्वादंशाचतुर्भागं पतिताः स्युरदित्सवः ॥११८ ॥ स्वेभ्य इति ॥ ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो भ्रातरः स्वजात्यपेक्षवा स्वेभ्यश्च- तुरोंऽशान् हरेमः । विन इत्यादिना वक्ष्यमाणेभ्यो भागेभ्य आत्मीयात्मीयाद्भागा- चतुर्थभागं पृथक्कन्याभ्योऽनूढाभ्यो भगिनीभ्यो या यस्य सोदर्या भगिनी स तस्या एव संस्कारार्थमिति एवं दद्युः। सोदर्याभाचे विमातृजैरुस्कृष्टैरपकृष्टैरपि संस्कायैव । तथाच याज्ञवल्क्यः-'असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशाइत्वांशं तु तुरीयकम् ॥' यदि भगिनीसंस्कारार्थं चतुर्भागं दातुं नेच्छंति तदा पतिता भवेयुः । एतेनैकजातीयवैमात्रेयबहुपुत्रभगिनीसद्भावेऽपि सोदर्यभ- गिनीभ्यश्चतुर्थभागदानमवगन्तव्यम् ॥ ११८ ॥ अजाविकं सैकशर्फ न जातु विषमं भजेत् । अजाविकं तु विषम ज्येष्टस्यैव विधीयते ॥ ११९ ॥ अजेति ॥ एकशफा अश्वादयः । छागमेषाघेकशफसहितं विभागकाले समं कृत्वा विभक्तुमशक्यं तन्न विभजेकिंतु ज्येष्ठस्यैव तत्स्यान्नतु तत्तुल्यद्रव्यान्तरदानेन समीकृत्य विक्रीय वा तन्मूल्यं विभजेत् । अजाविकमिति पशुद्वन्द्वाद्विभाषै. कवद्भावः ॥ ११९ ॥ यवीयाज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः स्यादिति धर्मों व्यवस्थितः ॥ १२० ॥ यवीयानिति ॥ कनिष्टो यदि ज्येष्टभ्रातृभायां नियोगेन पुत्रं जनयेत्तदा तेन बिपितृव्येण सह तस्य क्षेत्रजस्य समो विभागः स्यान्नतु पितृवत्सोद्धारो भवतीति विभागव्यवस्था नियता । अनियोगोत्पन्नस्यानंशित्वं वक्ष्यति । यद्यपि 'समेत्य भ्रातरः समम्' इत्युक्तं तथाप्यस्मादेव लिङ्गात्पौत्रस्यापि मृतपितृकस्य पैतामहे धने पितृव्यविभागोऽस्तीति गम्यते ॥ १२० ॥ ज्येष्ठभ्रातुः क्षेत्रजः पुत्रोपि पितेव सोद्धारविभागी युक्त इतीमां शङ्कां निराकृत्य पूर्वोक्तमेव ढयति- उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत् ॥ १२१॥ उपसर्जनमिति ॥ अप्रधानं क्षेत्रजः पुत्रः प्रधानस्य क्षेत्रिणः पितृधर्मेण सोद्धार. विभागग्रहणरूपेण न संबध्यते । क्षेत्र्यपि पिता तद्द्वारेणापत्योत्पादने प्रधानम् । तस्मात्पूर्वोक्तेनैव धर्मेण विभागव्यवस्थारूपेण पितृव्येन सह तं क्षेत्रनं विभजेदिति पूर्वस्यैव शेषः ॥ १२१ ॥ पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः। कथं तत्र विभागः सादिति चेत्संशयो भवेत् ॥ १२२ ।।