पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३५९ देयः । कनिष्ठस्य पुनरशीतितमो भागो दातव्यः । अवशिष्टं धनं समं कृत्वा विभ- जनीयम् ॥ ११२॥ ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्थान्मध्यमं धनम् ॥ ११३।। ज्येष्ठश्चेति ॥ ज्येष्टकनिष्टौ पूर्वश्लोके यथोक्तमुद्धारं गृह्णीयाताम् । ज्येष्ठकनिष्टव्य- तिरिक्ता ये मध्यमास्तेषामेवावान्तरज्येष्टकनिष्टतामनपेक्ष्य मध्यमस्योक्तचत्वारिंश- द्भागः प्रत्येकं दातव्यः । मध्यमानामवान्तरज्येष्ठकनिष्टदेयभागे वैषम्यवारणार्थ- मिदम् ॥ ११३॥ सर्वेषां धनजातानामाददीताग्र्यमग्रजः। यच्च सातिशयं किंचिद्दशतश्चाप्नुयाद्वरम् ॥ ११४ ॥ सर्वेषामिति ॥ सर्वेषां धनप्रकाराणां मध्याद्यच्छ्रेष्टं धनं, ज्येष्ठः तद्धनं गृह्णी- यात् । 'सर्वव्याञ्च यद्वरम्' इत्युक्तमनूदितसमुच्चयबोधनाय । यच्चैकमपि प्रकृष्टं द्रव्यं विद्यते तदपिज्येष्ठ एव गृह्णीयात् । तथा 'दशतः पशूनाम्' इति गोतमस्मरणा- दृशभ्यो गवादिपशुभ्य एकैकं श्रेष्टं ज्येष्टो लभते । इदं च यदि ज्येष्टो गुणवानितरे निर्गुणास्तद्विषयं । सर्वेषां समगुणत्वे तु ॥ १४ ॥ उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु । यत्किचिदेव देयं तु ज्यायसे मानवर्धनम् ॥ ११५ ॥ उद्धार इति ॥ 'दशतश्चानुयाद्वरम्' इति योऽयमुद्धार उक्तः सोऽयमध्ययनादि- कर्मसमृद्धानां भ्रातॄणां ज्येष्टस्य नास्ति । तत्रापि यत्किंचिदस्य देयमिति। द्रव्यं पूजावृद्धिकरं ज्येष्ठाय देयम् । एवंर सनगुणेद्वारप्रतिपेधदर्शनानपूर्वत्र गुणो- कविशेषापेक्षयोद्धारवैषम्यं बोद्धव्यम् ॥ ११५ ॥ एवं समुद्धृतोद्धारे समानंशान्कल्पयेत् । उद्धारेऽनुद्धृते त्वेपामियं स्यादंशकल्पना ॥ ११६ ॥ एवमिति ॥ एवमुक्तप्रकारेण समुद्धृतविंशद्भागाधिके धने समान्मागान् भ्रा- तृणां कल्पयेत् । विंशतितमभागादौ पुनरनुद्धृत इयं वक्ष्यमाणभागकल्पना भवेत् ॥ ११६ ॥ एकाधिकं हरेज्येष्ठः पुत्रोऽध्यर्ध ततोऽनुजः । अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥११७॥ एकाधिकमिति ॥ एकाधिकमंशं द्वावंशाविति यावत् । ज्येष्टपुत्रो गृह्णीयात् । अधिकमर्थं यत्रांशे सार्धमंशं ज्येष्ठादनन्तरजातो गृह्णीयात् । कनिष्ठाः पुनरेकैकमंशं गृह्णीयुरिति व्यवस्थितो धर्मः । इदं तु ज्येष्ठतदनुजयोर्विद्यादिगुणवत्त्वापेक्षया, कनिष्टानां च निर्गुणवत्त्वे बोद्धव्यम् । ज्येष्टतदनुजयोरधिकदानदर्शनात् ॥ ११७