अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता।
३५७
अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः ।
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः॥१०१॥
अन्योन्यस्येति ॥ भार्यापत्योर्मरणान्तं यावद्धर्मार्थकामेषु परस्पराव्यभिचारः
स्यादित्येव संक्षेपतः स्त्रीपुंसयोः प्रकृष्टो धर्मों ज्ञातव्यः । तथा च सति ॥ २०१॥
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ १०२॥
तथेति ॥ स्त्रीपुंसौ कृतविवाही तथा सदा यत्नं कुर्यातां यथा धर्मार्थकामविषये
वियुक्तौ परस्परं न व्यभिचरेताम् ॥ १०२ ॥
एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः ।
आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥ १०३ ॥
एष इति ॥ एष भार्यापत्योरन्योन्यानुरागयुक्तो धर्मो युष्माकमुक्तः। संतानाभावे
चापत्यप्राप्तिरुक्ता । इदानीं दीयत इति दायः पित्रादिधनं तस्य विभागव्यवस्था
शृणुत ॥ १०३॥
भ्रातरो मिलित्वा पितृमरणादूर्ध्व पैतृकं मातृमरणादूर्वं मातृकं धनं समं
कृत्वा विभजेरन् । ज्येष्टगोचरतयोद्धारस्य वक्ष्यमाणत्वात् समभागोयं ज्येष्टभ्रात-
युद्धारमनिच्छति बोद्धव्यः । पित्रोर्मरणादूर्व विभागहेतुमाह-
ऊर्ध्व पितुश्च मातुश्च समेत्य भ्रातरः समम् ।
भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ १०४ ॥
ऊर्ध्वमिति ॥ यस्मात्ते पुत्रा जीवतोः पित्रोस्तदीयधने स्वामिनो न भवन्ति ।
मातुरपि प्रकृतत्वात्पैतृकमित्यनेन मातृकस्यापि ग्रहणम् । अयं च पितृमरणानन्तरं
विभागो जीवतः पितुरिच्छाभावे द्रष्टव्यः। पितुरिच्छया जीवत्यपि तस्मिन्विभागः!
तदाह याज्ञवल्क्यः-'विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान्' इति ॥३०४॥
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः ।
शेपास्तमुपजीवेयुर्यथैव पितरं तथा ॥ १०५ ॥
यदा पुनज्येष्ठो धार्मिको भवति तदा-ज्येष्ठ इति ॥ ज्येष्ठ एव पितृसंबन्धि
धनं गृह्णीयात् । कनिष्ठाः पुनर्येष्ठं भक्ताच्छादनाद्यर्थ पितरमिवोपजीवेयुः। एवं
सर्वेषां सहैवावस्थानम् ॥ १०५ ॥
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ १०६ ॥
ज्येष्ठेति ॥ उत्पन्नमात्रेण ज्येष्ठेन संस्काररहितेनापि मनुष्यः पुत्रवान्भवति ।
ततश्च 'नापुत्रस्य लोकोऽस्ति' इति श्रुतेः पुण्यलोकाभावपरिहारो भवति । तथा
'प्रजया पितृभ्यः' इति श्रुतेः । 'पुत्रेण जातमात्रेण पितॄणामनृणश्च सः' इति ।
अतो ज्येष्ठ एव सर्वधनमर्हति पूर्वस्य । अनुजास्तेन साम्ना वर्तेरन् ॥ १०६ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
