पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [ अध्यायः९ देवदत्तां पतिर्भार्या विन्दते नेच्छयात्मनः। तां साध्वीं विभृयानित्यं देवानां प्रियमाचरन् ॥ ९५ ॥ देवेति ॥ 'भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः' इत्यादिम- लिङ्गात् , या देवैर्दत्ता भार्या तां पतिर्लभते नतु स्वेच्छया। तां सती देवानां प्रियं कुर्वन्यासाच्छादनादिना सदा द्वेषाद्युत्पन्नामपि पोषयेत् ॥ ९५ ॥ प्रजनार्थ स्त्रियः सृष्टाः संतानार्थ च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पन्या सहोदितः॥९६ ॥ प्रजनार्थमिति ॥ यस्माद्दर्भग्रहणार्थ स्त्रियः सृष्टा गर्भाधानार्थं च मनुष्यास्तस्मा- गर्भोत्पादनमेवानयोः, अग्न्याधानादिरपि धर्मः पल्या सह साधारणः 'क्षौमे वसा- नावग्नीनादधीयातां' इत्यादिदेऽभिहितः । तस्माद्भार्या विभृयादिति पूर्वोक्तस्य शेषः ॥ ९६ ॥ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्यानुमन्यते ॥९७॥ कन्यायामिति ॥ कन्यायां दत्तशुल्कायां सत्यामसंजातविवाहायां यदि शुल्कदो वरो म्रियते, तदा देवराय पित्रादिभिर्वासौ कन्या दातव्या यदि सा स्वीकरोति । 'यस्या म्रियते' इति प्रागुक्तं नियोगरूपं, इदं तु शुल्कग्रहणविषयम् ॥ ९७ ॥ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् । शुल्कं हि गृह्णन्कुरुते छन्नं दुहितृविक्रयम् ॥ ९८ ॥ आददीतेति ॥ शास्त्रानभिज्ञः शूद्रोऽपि पुत्रों ददच्छुल्कं न गृह्णीयात्किं पुनः शास्त्रविविजातिः । यस्माच्छुल्कं गृह्णन्गुप्तं दुहितृविक्रयंकुरुते । न कन्यायाः पितेत्य- नेन निषिद्धमपि शुल्कग्रहणं कन्यायामपि गृहीतशुल्कायां शास्त्रीयनियमदर्शना- च्छुल्कग्रहणे शास्त्रीयत्वशङ्कायां पुनस्तन्निषिध्यते ॥ ९८ ॥ एतत्तु न परे चक्रु परे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ ९९ ॥ एतदिति ॥ एतत्पुनः पूर्व शिष्टा न कदाचित्कृतवन्तो नाप्यपरे वर्तमानकालाः कुर्वन्ति यदन्यस्य कन्यामङ्गीकृत्य पुनरन्यस्मै दीयत इति । एतच्च गृहीतशुल्कक- न्यामदत्त्वा कस्यचित् , कन्यायामिति तु गृहीतशुल्कविषयम् ॥ ९९ ॥ नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु । शुल्कसंज्ञेन मूल्येन छन्नं दुहितविक्रयम् ॥ १० ॥ नेति ॥ पूर्वकल्पेष्वप्येद्वृत्तमिति कदाचिद्वयं न श्रुतवन्तो, यच्छुल्काभिधानेन मूल्येन कश्चित्साधुYढं दुहितृविक्रयमकार्षीदिति शुल्कनिषेधार्थवादः ॥ १० ॥