पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ५.

मासीदित्यर्थः । तथाच श्रुतिः-'तम आसीत्तमसा गूळ्हमग्रे' इति । प्रकृतिरपि ब्रह्मात्मनाऽव्याकृतासीत् । अतएव अप्रज्ञातमप्रत्यक्षं सकलप्रमाणश्रेष्ठतया प्रत्यक्षगोचरः प्रज्ञात इत्युच्यते तन्न भवतीत्यप्रज्ञातं अलक्षणमननुमेयं लक्ष्यतेऽनेनेति लक्षणं लिङ्गं तदस्य नास्तीति अलक्षणं अप्रतर्क्यं तर्कयितुमशक्यं तदानी वाचकस्थूलशब्दाभावाच्छब्दतोऽप्यविज्ञेयम् । एतदेव च प्रमाणत्रयं सतर्क द्वादशाध्याये मनुनाभ्युपगतं अतएवाविज्ञेयमित्यर्थापत्त्याद्यगोचरमिति धरणीधरस्यापि व्याख्यानम् । नच नासीदेवेति वाच्यम् । तदानीं श्रुतिसिद्धत्वात् । तथाच श्रूयते-'तद्धेदं तव्याकृतमासीत्' । छान्दोग्योपनिषच्च-सदेव सोम्येदमग्र आसीत् ' । इदं जगत्सदेवासीत् । ब्रह्मात्मना आसीदित्यर्थः। सच्छब्दो ब्रह्मवाचकः । अतएव प्रसुप्तमिव सर्वतः। प्रथमार्थे तसिः । स्वकार्याक्षममित्यर्थः ॥५॥

अथ किमभूदित्याह-

ततः स्वयंभूभगवानव्यक्तो व्यञ्जयन्निदम्।
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः ॥६॥

ततः स्वयंभूर्भगवानित्यादि ॥ ततः प्रलयावसानानन्तरं स्वयंभूः परमात्मा स्वयं भवति स्वेच्छया शरीरपरिग्रहं करोति, न त्वितरजीववत्कर्मायत्तदेहः । तथाच श्रुतिः-'स एकधा भवति द्विधा भवति'। भगवानैश्वर्यादिसंपन्नः । अव्यक्तो बाह्यकरणागोचरः । योगाभ्यासावसेय इति यावत् । इदं महाभूतादि । आकाशादीनि महाभूतानि । आदिग्रहणान्महदादीनि च व्यञ्जयन्नव्यक्तावस्थं प्रथमं सूक्ष्मरूपेण ततः स्थूलरूपेण प्रकाशयन् । वृत्तौजाः वृत्तमप्रतिहतमुच्यते । अतएव 'वृत्तिसर्गतायनेषु क्रमः' इत्यत्र वृत्तिरप्रतिघात इति व्याख्यातं जयादित्येन । वृत्तमप्रतिहतमोजः सृष्टिसामर्थ्यं यस्य स तथा।तमोनुदः प्रकृतिप्रेरकः । तदुक्तं भगवद्गीतायाम्- 'मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्' इति । प्रादुरासीत्प्रकाशितो बभूव । तमोनुदः प्रलयावस्थाध्वंसक इति तु मेधातिथिगोविन्दराजौ ॥ ७ ॥

योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्भभौ ॥ ७ ॥

योऽसाविति ॥ योऽसाविति सर्वनामद्वयेन सकललोकवेदपुराणेतिहासादिप्रसिद्धं परमात्मानं निर्दिशति । अतीन्द्रियग्राह्यः इन्द्रियमतीत्य वर्तत इत्यतीन्द्रियं मनस्तद्ग्राह्य इत्यर्थः । यदाह व्यासः-'नैवासौ चक्षुषा ग्राह्यो न च शिष्टैरपीन्द्रियैः । मनसा तु प्रयत्नेन गृह्यते सूक्ष्मदर्शिभिः ॥' सूक्ष्मो बहिरिन्द्रियागोचरः । अव्यक्तो व्यक्तिरवयवस्तद्रहितः । सनातनो नित्यः । सर्वभूतमयः सर्वभूतात्मा । अतएवाचिन्त्यः इयत्तया परिच्छेत्तुमशक्यः । स एव स्वयं उद्बभौ महदादिकार्यरूपतया प्रादुर्बभूव । उत्पूर्वी भातिः प्रादुर्भावे वर्तते । धातूनामनेकार्थत्वात् ॥ ७ ॥

सोऽभिध्याय शरीरात्स्वात्सिसक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु बीजमवासृजत्
॥ ८॥