पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


४ मनुस्मृतिः । [अध्यायः १

श्रूयतामित्युपक्षिप्तमर्थमाह-

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥५॥

आसीदिदामिति ॥ ननु मुनीनां धर्मविषयप्रश्ने तत्रैवोत्तरं दातुमुचित तत्कोऽयमप्रस्तुतः प्रलयदशायां कारणलीनस्य जगतः सृष्टिप्रकरणावतारः । अत्र मेधातिथिः समादधे-शास्त्रस्य महाप्रयोजनत्वमनेन सर्वेण प्रतिपाद्यते । ब्रह्माद्याः स्थावरपर्यन्ताः संसारगतयो धर्माधर्मनिमित्ता अत्र प्रतिपाद्यन्ते । 'तमसा बहुरूपेण वेष्टिताः कर्महेतुना' इति । वक्ष्यति च 'एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा। धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः' इति। ततश्च निरतिशयैश्वर्यहेतुर्धमस्तद्विपरीतश्चाधर्मस्तद्रूपपरिज्ञानार्थमिदं शास्त्रं महाप्रयोजनमध्येतव्यमित्याद्यध्यायतात्पर्यमित्यन्तेन । गोविन्दराजस्यापीदमेव समाधानम् । नैतन्मनोहरम्। धर्मस्वरूपप्रश्ने यद्धर्मस्य फलकीर्तनं तदप्यप्रस्तुतम् । धर्मोक्तिमात्राद्धि शास्त्रमर्थवत् । किंच 'कर्मणां फलनिर्वृत्तिं शंसेत्युक्ते महर्षिभिः । द्वादशे वक्ष्यमाणा सा वक्तुमादौ न युज्यते ॥ इदं तु वदामः । मुनीनां धर्मविषये प्रश्ने जगत्कारणतया ब्रह्मप्रतिपादनं धर्मकथनमेवेति नाप्रस्तुताभिधानम् । आत्मज्ञानस्यापि धर्मरूपत्वात्। मनुनैव 'धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्' इति दशविधधर्माभिधाने विद्याशब्दवाच्यमात्मज्ञानं धर्मत्वेनोक्तम् । महाभारतेऽपि-'आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप' इत्यात्मज्ञानं धर्मत्वेनोक्तम् । याज्ञवल्क्येन तु परमधर्मत्वेन यदुक्तम्-'इज्याचारदमाहिंसा दानं स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्' इति । जगत्कारणत्वं च ब्रह्मलक्षणम् । अतएव ब्रह्ममीमांसायाम्-'अथातो ब्रह्मजिज्ञासा' इति सूत्रानंन्तरं ब्रह्मलक्षणकथनाय 'जन्माद्यस्य यतः' इति द्वितीयसूत्रं भगवान्बादरायणः प्रणिनाय । अस्य जगतो यतो जन्मादि सृष्टिस्थितिप्रलयमिति सूत्रार्थः । तथाच श्रुतिः-'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति' प्राधान्येन जगदुत्पत्तिस्थितिलयनिमित्तोपादानब्रह्मप्रतिपादनम् । आत्मज्ञानरूपपरमधर्मावगमाय प्रथमाध्यायं कृत्वा संस्कारादिरूपं धर्म तदङ्गतया द्वितीयाध्यायादिक्रमेण वक्ष्यतीति न कश्चिद्विद्विरोधः ॥ किंच प्रश्नोत्तरवाक्यानामेव स्वरसादयं मदुक्तोऽर्थो लभ्यते । तथा हि-'धर्मे पृष्टे मनुब्रह्म जगतः कारणं ब्रुवन् । आत्मज्ञानं परं धर्म वित्तेति व्यक्तमुक्तवान्॥प्राधान्यात्प्रथमाध्याये साधु तस्यैव कीर्तनम् । धर्मोऽन्यस्तु तदङ्गत्वाद्युक्तो वक्तुमनन्तरम् ॥' इदमित्यध्यक्षेण सर्वस्य प्रतिभासमानत्वाजगन्निर्दिश्यते । इदं जगत्तमोभूतं तमसि स्थितं लीनमासीत् । तमःशब्देन गुणवृत्त्या प्रकृतिनिर्दिश्यते। तम इव तमः। यथा तमसि लीनाः पदार्था अध्यक्षेण न प्रकाश्यन्त एवं प्रकृतिलीना अपि भावा नावगम्यन्त इति गुणयोगः । प्रलयकाले सूक्ष्मरूपतया प्रकृतौ लीन-