अध्यायः९] मन्वर्थमुक्तावलीसंवलिता।
३४५
व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
मृगालयोनि चाप्नोति पापरोगैश्च पीड्यते ॥३०॥
व्यभिचारादिति ॥ पुरुषान्तरसंपर्कात्स्त्री लोके निन्द्यतां जन्मान्तरे च सूगाल-
जाति प्राप्नोति । पापरोगादिभिश्च पीड्यते । पञ्चमाध्याये स्त्रीधर्म उक्तमप्येतच्लो-
कद्वयं सदपत्यसंपत्त्यर्थत्वेन महाप्रयोजनतया पुनः पठितम् ॥ ३० ॥
पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः ।
विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ ३१ ॥
पुत्रमिति ॥ पुत्रमधिकृत्य शिष्टैर्मन्वादिभिः पूर्वमुत्पञ्जैश्च महर्षिभिरमिहितनिमं
वक्ष्यमाणं सर्वजनहितं विचारं शृणुत ॥ ३१ ॥
भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु भर्तरि ।
आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥ ३२ ॥
भर्तुरिति ॥ भर्तुः पुत्रो भवतीति मुनयो मन्यन्ते । भर्तरि द्विःप्रकारा श्रुतिर्व-
तते । केचिदुत्पादकमोढारमपि भारं तेन पुत्रेण पुत्रिणमाहुः। अन्ये तु वोढारं
भर्तारमनुत्पादकमप्यन्यजनितेन पुत्रेण पुत्रिणमाहुः ॥ ३२ ॥
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
क्षेत्रत्रीजसमायोगात्संभवः सर्वदेहिनाम् ॥ ३३ ॥
क्षेत्रभूतेति ॥ ब्रीह्याद्युत्पत्तिस्थानं क्षेत्रं तत्तुल्या स्त्री मुनिभिः स्मृता । पुरुषश्च
ब्रीह्यादिबीजतुल्यः स्मृतः । यद्यपि रेतो बीजं तथापि तदधिकरणत्वापुरुषो बीज-
मिति व्यपदिश्यते । क्षेत्रबीजसमायोगात्सर्वप्राणिनामुत्पत्तिः । एवं चोभयोः कार-
णत्वस्याविशिष्टत्वाद्युक्त्वा विप्रतिपत्तिः, किं यत्संबन्धि क्षेत्रं तस्थापत्यमुत यदीयं
बीजं तस्येति ॥ ३३ ॥
विशिष्टं कुत्रचिद्धीजं स्त्रीयोनिस्त्वेव कुत्रचित् ।
उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ३४ ॥
विशिष्टमिति ॥ क्वचिद्वीजं प्रधानं 'जायते त्वनियुक्तायाम्' इति न्यायेनोत्पन्नो
बीजिनो बुध इव सोमस्य । तथा व्यासर्यशृङ्गादयो बीजिनामेव सुताः ।
क्वचित्क्षेत्रस्य प्राधान्यं यथायं तल्पजः प्रमीतस्येति वक्ष्यति । अतएव विचि-
त्रवीर्यक्षेत्रे क्षत्रियायां ब्राह्मणोत्पादिता अपि धृतराष्ट्रादयः क्षत्रियाः क्षेत्रिण एष
पुत्रा बभूवुः । यत्र पुनर्बीजयोन्योः साम्यं तत्र वोडैव जनयिता तदपत्यं प्रशस्तं
भवति तत्र बीजप्राधान्यापेक्षं तावदाहुः ॥ ३४ ॥
बीजस्य चैव योन्याश्च वीजमुत्कृष्टमुच्यते ।
सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥ ३५ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
