पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। .4 लाभेन स्वधर्म च विशुद्धभायस्याधानादावप्यधिकाराद्रक्षति । तस्मास्त्रियो रक्षितुं यतेतेति पूर्वस्य विशेषः ॥ ७ ॥ पतिर्भार्या संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः॥८॥ पतिरिति ॥ पतिः शुक्ररूपेण भार्या संग्रविश्य गर्भमापाद्य तस्यां भार्यायां पुत्ररूपेण जायते । तथाच श्रुतिः 'आत्मा वै पुत्रनामासि' इति । जायायास्तदेव जायात्वं यतोऽस्यां पतिः पुनजायते । तथाच बढचब्राह्मणम्-'पतिर्जायां प्रवि- शति गर्भो भूत्वेह मातरम् । तस्यां नर्नवो भूत्वा दशमे मासि जायते ॥ तज्जाया जाया भवति यदस्यां जायते पुनः' तश्चासौ रक्षणीयेत्येतदर्थं नामनिर्वचनम् ८ यादृशं भजते हि स्त्री सुतं मूते तथाविधम् । तस्मात्प्रजाविशुद्ध्यर्थ स्त्रियं रक्षेत्प्रयत्नतः॥९॥ यादृशमिति ॥ यस्माद्यादृशं पुरुष शास्त्रेण विहितं प्रतिषिद्धं वा तादृशशास्त्रो- क्तपुरुपसेवनेनोत्कृष्टं निषिद्धपुरुपसेवनेन च निकृष्टं पुत्रं जनयति । तस्मादपत्यवि- शुद्ध्यर्थं पत्नी यत्नतो रक्षेत् ॥ ९ ॥ कथं रक्षणीयेत्यत आह- न कश्चिद्योपितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ १० ॥ नेति ॥ कश्चिद्धलात्संरोधादिनापि स्त्रियो रक्षितुं न शक्तः, तत्रापि व्यभिचार- दर्शनात् । किंत्वेतैर्वक्ष्यमाणै रक्षणोपायप्रयोगैस्ता रक्षयितुं समर्थाः ॥ १० ॥ तानुपायानाह- अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपत्यां च पारिणाह्यस्य वेक्षणे ॥ ११ ॥ अर्थस्येति ॥ धनस्य संग्रहणे विनियोगे च द्रव्यशरीरशुद्धौ भग्निशुश्रूषादि- केऽनसाधने पारिणाह्यस्य गृहोपकरणस्य शय्यासनकुण्डकटाहादेरवेक्षणे एना नियोजयेत् । वेक्षणेअवआदिलोपः (2) ॥ ११ ॥ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः॥ १२ ॥ अरक्षिता इति ॥ आप्ताश्च ते आज्ञाकारिणश्च तैः पुरुपैर्गृहे रुद्धा अप्यरक्षिता भवन्ति याः दुःशीलतया नात्मानं रक्षन्ति । यास्तु धर्मज्ञतया आत्मानमात्मना रक्षन्ति ता एव सुरक्षिता भवन्ति । अतो धर्माधर्मफलस्वर्गनरकप्राप्त्याधुपदेशे- नासां संयमः कार्य इति मुख्यरक्षणोपायकथनपरमिदम् ॥ १२ ॥