पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३३९ भार्येति ॥ पुत्रभार्यादासास्त्रयोऽमी निर्धना एव मन्वादिभिः स्मृताः । यसाद्य- द्धनं तेऽर्जयन्ति यस्य ते भार्यादयस्तस्य तद्धनं भवति । एतच्च भार्यादीनां पारत- न्यप्रदर्शनार्थपरम् । अध्यन्यादेः पड्डिधस्य स्त्रीधनस्य वक्ष्यमाणत्वात् धनसा- ध्यादृष्टार्थकर्मोपदेशार्थं च भार्यादीनां पत्न्यधिकरणे पत्न्यर्थेऽपि यागाधिकारस्यो- क्तत्वात् । स्त्रीपुंसयोर्मध्ये एकधने चानुमतिद्वारेण स्त्रिया अपि कर्तृत्वात् ॥४१६ विस्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् । नहि तस्यास्ति किंचित्वं भर्तृहार्यधनो हि सः॥ ४१७ ।। विस्रब्धमिति ॥ निर्विचिकित्समेव प्रकृताहासशूद्राद्धनग्रहणं कुर्याद्राह्मणः । यतस्तस्य किंचिदपि स्वं नास्ति । यस्माद्भर्तृग्राह्यधनोऽसौ । एवं चापदि बलादपि दासाब्राह्मणो धनं गृह्णन्न राज्ञा दण्डनीय इत्येवमर्थमेतदुच्यते ॥ ४१७ ॥ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ ४१८ ॥ वैश्येति ॥ वैश्यं कृष्यादीनि शुद्धं च द्विजातिशुश्रूषादीनि कर्माणि यत्नतो राजा कारयेत् । यस्मात्तौ स्वकर्मभ्यच्युतावशास्त्रीयोपार्जितधनग्रहणमदादिना जगदाकुलीकुर्याताम् ॥ ४१८ ॥ अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च । आयव्ययौ च नियतावाकरान्कोशमेव च ॥ ४१९ ॥ अहनीति ॥ प्रत्यहं तदधिकृतद्वारेण प्रारब्धदृष्टादृष्टार्थकर्मणां निप्पत्तिं नृपति- निरूपयेत् । तथा हस्त्यश्वादीनि किमद्य प्रविष्टं किं निःसृतमिति, सुवर्णरत्नोत्पत्ति- स्थानानि, भाण्डागारं चावेक्षेत । व्यवहारदर्शनासक्तोऽपि राजा धर्मान्न परित्यजे- दिति दर्शयितुमुक्तस्यापि पुनर्वचनम् ॥ ४१९ ॥ एवं सर्वानिमात्राजा व्यवहारान्समापयन् । व्यपोह्य किल्विषं सर्वं प्राप्नोति परमां गतिम् ॥ ४२० ॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायामष्टमोऽध्यायः ॥८॥ एवमिति ॥ एवमुक्तप्रकारेणैतान्सर्वानृणादानादीन्व्यवहारांस्तत्त्वतो निर्णये- नान्तं नयन्पापं सर्वमपहाय स्वर्गादिप्राप्तिरूपामुत्कृष्टां गतिं लभते ॥ ४२० ॥ इति श्रीकुल्लूकभट्टविरचिताया मन्वर्थमुक्तावल्यामष्टमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यायः। पुरुषस्य स्त्रियाश्चैव धर्मे वर्मनि तिष्ठतोः । संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान् ॥१॥