पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः ८ वाणिज्यं कारयवश्यं कुतीदं कृषिमेव च । पशूनां रक्षणं चैव दाखं शूद्रं द्विजन्मनाम् ।। ४१० ॥ वाणिज्यमिनि ॥ वाणिज्यं कुसीकृषिपशुरक्षणानि वैश्यं कारयेत् । शूद्रं च राजा द्विजातीनां दास्यं कारयेत् । अकुर्वाणौ वैश्यशूद्रो राज्ञो दण्ड्या वित्येवमर्थो- ऽयमिहोपदेशः ॥ ४० ॥ क्षत्रियं चैव वैश्यं च ब्रामणो वृत्तिकर्शितौ । विभृयादानृशंस्पेन स्वानि कर्माणि कारयन् ॥ ४११ ॥ क्षत्रियमिति ॥ ब्राह्मणः क्षत्रियवैश्यौ भृत्यभावेन पीडितो करुणया स्वानि कर्माणि रक्षणकृष्यादीनि कारयन् ग्रासाच्छादनादिना पोषयेत् । एवं बलवा- ब्राह्मणस्तावुपगतावबिझन् राज्ञा दण्डनीय इति प्रकरणसामर्थ्यागम्यते ॥४११॥ दास्यं तु कारवॅल्लोभाद्राह्मणः संस्कृतान्दिजान् । अनिच्छतः प्रामवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥४१२॥ दास्यं त्विति ॥ प्रभवतो भाव प्राभवत्यं । ब्राह्मणः कृतोपनयनान्द्विजातीननि- च्छतः प्रभुत्वेन लोभादास्यकर्मपादधावनादि कारयन् पट् शतानि दण्ड्य ॥४१२॥ शूद्रं तु कारयेदास्यं क्रीतमक्रीतमेव वा । दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा ॥ ४१३ ॥ शूद्रं त्विति ॥ शूद्रं पुनर्भक्तादिभृतममृतं वा दात्यं कारयेत् । यस्मादसो ब्राह्मणस्य दास्यायैव प्रजापतिना सृष्टः ॥ ४१३ ॥ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥ ४१४ ॥ न स्वामिनेति ॥ यस्मादसो ध्वजाहृतत्वादिना दासत्वं गतः स तेन त्यक्तः स्त्रदास्याभावेऽपि शूद्रो ब्राह्मणस्य दास्यान्न चिमुच्यते । तस्माद्दास्यं शूद्रस्य सहर्ज। कः शूद्रत्वजातिमिव दात्यमपनयति । अदृष्टार्थमप्यवश्यं शूद्रेण ब्राह्मणादिद्विज- शुश्रूषा कर्तव्येत्येवपरमेतत् । अन्यथा वक्ष्यमाणदात्यकरणपरिगणनमनर्थकं स्यात् ॥ ४१४॥ ध्वजाहतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैत्रिको दण्डदासश्च सप्तते दासयोनयः॥४१५॥ ध्वजेति ॥ संग्रामस्वाभिसकाशाजितो, भक्तलोभाधुपगतदास्यो भक्कदासः, तथा दासीपुत्रः, मूल्येन क्रीतः, अन्येन दत्तः, पित्रादिक्रमागतः, दण्डादिधनशुद्ध्यर्थ स्वीकृतदास्यभावः, इत्येतानि सप्त ध्वजाहृतत्वादीनि दासत्वकारणानि ॥ ४१५॥ भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ४१६ ॥ n