पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तेरे । पादं पशुश्च योषिञ्च पादा रिक्तकः पुमान् ॥ ४०४ ।। पणमिति ॥ 'भाण्डपूर्णानि यानानि' इति वक्ष्यति । तेन रिक्तशकटादि यानं तरविषये पणं दाप्यम् । एवं पुरुषभारोऽर्धपणं तरपण्यं दाप्यः। पशुश्च गवादिः पणचतुर्थभागं, भाररहितो मनुष्यः पणाष्टभागं दापनीयः ॥ ४०४ ॥ भाण्डपूर्णानि यानानि तार्य दाप्यानि सारतः । रिक्तभाण्डानि यत्किचित्पुमांसश्चापरिच्छदाः॥४०५॥ भाण्डेति ॥ पण्यद्रव्यपूर्णानि शकटादीनि द्रव्यगतोत्कर्षापेक्षया तरं दाप्यानि । द्रव्यरहितानि च गोणीकम्बलादीनि यत्किंचित्स्वल्पं तार्य दाप्यम् । अपरिच्छदा दरिद्रा उक्तपदार्थदानापेक्षया यत्किचिद्दापनीयाः ॥ ४०५ ॥ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ ४०६ ॥ दीर्धेति ॥ पूर्व पारावारे तरणार्थसुक्तम् । इदानी नदीमार्गे दूराध्वनि गन्तव्ये अबलवेगस्थिरोदकनद्यादिदेशग्रीप्मवादिकालापेक्षया तरमूल्यं कल्पनीयम् । एतच्च नदीतीरे बोद्धव्यम् । समुद्रे तु वाताधीनपोतगमनत्वात्स्वायत्तत्वाभावे तरपण्यविशेषज्ञापकं नदीवद्वियोजनादिकं नास्ति । ततस्तत्रोचितमेव तरपण्यं ग्राह्यम् ॥ ४०६ ॥ गर्भिणी तु द्विमासादिस्तथा प्रवजितो मुनिः। ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ ४०७ ॥ गर्भिणीति ॥ संजातगर्भा स्त्री मासद्वयादूर्व, तथा प्रबजितो भिक्षुर्मुनिर्वान- प्रस्थो, ब्राह्मणाश्च लिङ्गिनो ब्रह्मचारिण. तरमूल्यं तरे न दाप्याः ॥ ४०७ ॥ यन्नावि किंचिहाशानां विशीर्यतापराधतः। तद्दाशैरेव दातव्यं समागम्य स्वतोंऽशतः ॥ ४०८ ॥ यन्नाचीति ॥ नौकारूढानां यत्किचिन्नाविकापराधेन नष्टं द्रव्यं तनाविकरेव मिलित्वा यथाभागं दातव्यम् ॥ ४०८ ॥ एप नौयायिनामुक्तो व्यवहारस्य निर्णयः । दाशापराधतस्तोये दैविके नास्ति निग्रहः॥ ४०९॥ एष इति ॥ नाविकापराधाद्यदुदके नष्टं तन्नाविकैरेव दातव्यम्। पूर्वोक्तमनूदितं 'दैविके नास्ति निग्रहः' इति विधातुं नौयायिनामेष व्यवहारस्य निर्णय उक्तः । देवो- पजातवातादिना नौभङ्गेन धनादिनाशे नाविकानां न दण्डः ॥ ४०९ ॥