पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ८ शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । कुर्युरघु यथापल्यं ततो विंशं नृपो हरेत् ॥ ३९८ ॥ शुल्केति ॥ स्थलजलपथव्यवहारतो राजग्राह्यो भागः शुल्कम् । तस्यावस्थानेषु ये कुशलास्तथा सर्वपण्यानां सारासारज्ञास्ते पण्येषु यमघ मूल्यमनुरूपं कुर्युस्ततो लाभधनाविंशतिभागं राजा गृह्णीयात् ॥ ३९८ ॥ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ ३९९ ॥ राज्ञ इति ॥ राज्ञः संबन्धितया यानि विक्रेयद्रव्याणि प्रख्यातानि राजोपयोगीनि हस्त्यश्वादीनि च तद्देशोद्भवानि च प्रतिषिद्धानि च । यथा दुर्भिक्षे धान्यं देशान्तरं न नेयमिति तानि लोभाद्देशान्तरं नयतो वणिजः सर्वहरणं राजा कुर्यात् ॥३९९॥ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥४००॥ शुल्कस्थानमिति ॥ शुल्कमोषणायोत्पथेन गच्छति । अकाले राज्यादौ वा ऋयविक्रयं करोति । शुल्कखण्डनार्थ विक्रेयद्रव्यस्याल्पां संख्यां वक्ति । राजदेय- मपलपितमष्टगुणं दण्डरूपतया दाप्यः ॥ ४०० ॥ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ ४०१॥ आगममिति ॥ कियतो दूरादागतमिति देशान्तरीयद्व्यस्यागमनं, कियडूरं नीयत इति स्वदेशोद्भवस्य निर्गम, कियत्कालस्थितं कियन्मूल्यं लभत इति स्थितं, तथा कियती वृद्धिरित्यत्र कर्मकाराणां भक्ताच्छादनादिना कियानपक्षय इत्येवं विचार्य, तथा वणिजां केतृणां यथा पीडा न भवति तथा सर्वपण्यानां क्रयवि- क्रयौ कारयेत् ॥ ४०१ ॥ पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते । कुर्वीत चैषां प्रत्यक्षमघसंस्थापनं नृपः ॥ ४०२ ॥ पञ्चरात्र इति ॥ आगमनिर्गमोपाययोगादेः पण्यानामनियतत्वादस्थिरार्धादीनां पञ्चराने पञ्चरात्रे गते स्थिरप्रायार्याणां पक्षे पक्षे गते वणिजामघविदा प्रत्यक्षं नृपतिराप्तपुरुषैर्व्यवस्थां कुर्यात् ॥ ४०२ ॥ तुलामानं प्रतीमानं सर्व च स्यात्सुलक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ४०३ ॥ तुलेति ॥तुलामानं सुवर्णादीनां परिच्छेदार्थ यत्क्रियते प्रतिमानं प्रस्थद्रोणादि तत्सर्वं स्वनिरूपितं यथा स्यात् । षट्सु षट्सु मासेषु गतेषु पुनस्तत्सर्व सभ्यपुरुषैन- पतिः परीक्षयेत् ॥ ४०३ ॥