पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता ।। ३

अम्बष्टक्षत्तृकर्णप्रभृतीनां तेषां विजातीयमैथुनसंभवत्वेन खरतुरतीयसंपर्काजाताश्वतरवज्जात्यन्तरत्वाद्वर्णशब्देनाग्रहणात्पृथक् प्रश्नः । एतेनास्य शास्त्रस्य सर्वोपकारकत्वं दर्शितम् । यथावत् यो धर्मो यस्य वर्णस्य येन प्रकारेणार्हतीत्यनेनाश्रमधर्मादीनामपि प्रश्नः । अनुपूर्वशः क्रमेण जातकर्म, तदनु नामधेयमित्यादिना । धर्मान्नोऽस्मभ्यं वक्तुमर्हसि सर्वधर्माभिधाने योग्यो भवसि तस्माद्ब्रूहीत्यध्येषणमध्याहार्यम्। यत्तु ब्रह्महत्यादिरूपाधर्मकीर्तनमप्यत्र तत्प्रायश्चित्तविधिरूपधर्मविषयत्वेन न स्वतन्त्रतया ॥ २ ॥

सकलधर्माभिधानयोग्यत्वे हेतुमाह-

त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ ३॥

त्वमेक इत्यादि । हिशब्दो हेतौ । यस्मात्त्वमेकोऽद्वितीयः अस्य सर्वस्य प्रत्यक्षश्रुतस्य स्मृत्याद्यनुमेयस्य च विधानस्य विधीयन्तेऽनेन कर्माण्यग्निहोत्रादीनीति विधानं वेदस्तस्य स्वयंभुवोऽपौरुषेयस्याचिन्त्यस्य बहुशाखाविभिन्नत्वादियत्तया परिच्छेत्तुमयोग्यस्य अप्रमेयस्य मीमांसादिन्यायनिरपेक्षतयानवगम्यमानप्रमेयस्य । कार्यमनुष्ठेयमग्निष्टोमादि, तत्त्वं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादि वेदान्तवेद्यं तदेवार्थः प्रतिपाद्यभागस्तं वेत्तीति कार्यतत्त्वार्थचित् । मेधातिथिस्तु कर्ममीमांसावासनया वेदस्य कार्यमेव तत्त्वरूपोऽर्थस्तं वेत्तीति कार्यतत्त्वार्थविदिति व्याचष्टे । तन्न । वेदानां ब्रह्मण्यपि प्रामाण्याभ्युपगमान्न कार्यमेव तत्त्वरूपोऽर्थः । धर्माधर्मव्यवस्थापनसमर्थत्वात्प्रभो इति संबोधनम् ॥ ३ ॥ स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्य तान्सर्वान्महर्षीञ्श्रूयतामिति ॥ ४ ॥

 स तैः पृष्टस्तथा सम्यगित्यादि । स मनुस्तैर्महर्षिभिस्तथा तेन प्रकारेण पूर्वोक्तेन

न्यायेन प्रणतिभक्तिश्रद्धातिशयादिना पृष्टस्तान्सम्यग्यथातत्त्वं प्रत्युवाच श्रूयतामित्युपक्रम्य । अमितमपरिच्छेद्यमोजः सामर्थ्ये ज्ञानतत्त्वाभिधानादौ यस्य स तथा । अतएव सर्वज्ञसर्वशक्तितया महर्षीणामपि प्रश्नविषयः । महात्मभिर्महानुभावैः आर्च्य पूजयित्वा । आङ्पूर्वस्यार्चतेर्ल्यबन्तस्य रूपमिदम् । धर्मस्याभिधानमपि पूजनपुरःसरमेव कर्तव्यमित्यनेन फलितम् । ननु मनुप्रणीतत्वेऽस्य शास्त्रस्य स पृष्टः प्रत्युवाच इति न युक्तम् । अहं पृष्टो ब्रवीमीति युज्यते, अन्यप्रणीतत्वे च कथं मानवीयसंहितेति । उच्यते । प्रायेणाचार्याणामियं शैली यत्स्वाभिप्रायमपि परोपदेशमिव वर्णयन्ति । अतएव ‘कर्माण्यपि जैमिनिः फलार्थत्वात्” इति जैमिनेरेव सूत्रम् । अतएव ‘तदुपर्यपि बादरायणः संभवात्' इति बादरायणस्यैव शारीरकसूत्रम् । अथवा मनूपदिष्टा धर्मास्तच्छिष्येण भृगुणा तदाज्ञयोपनिबद्धाः । अतएव वक्ष्यति- 'एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः' इत्यतो युज्यत एव स पृष्टः प्रत्युवाचेति । मनूपदिष्टधर्मोपनिबद्धत्वाच्च मानवीयसंहितेति व्यपदेशः ॥ ४ ॥