पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [अध्यायः ८ क्षत्रियायामिति ॥ अरक्षितक्षत्रियागमने वैश्यस्य पञ्चशतानि दण्डः स्यात् । क्षत्रियस्य त्वरक्षितागमने गर्दभमूत्रेण मुण्डनं पञ्चशतरूपं वा दण्डमान- यात् ॥ ३८४ ॥ अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो ब्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम् ॥३८५॥ अगुप्त इति ॥ अरक्षितां क्षत्रियां वैश्यां शूद्रां वा ब्राह्मणो गच्छन्पञ्च- शतानि दण्ड्यः स्यात् । अन्ते भवोऽन्त्यजः यस्मादधमो नास्ति चाण्डालादिस्तस्य स्त्रियं गच्छन्सहस्रं दण्ड्यः ॥ ३८५ ॥ यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डन्नौ स राजा शक्रलोकभाक् ॥ ३८६ ॥ यस्येति ॥ यस्य राज्ञो राष्ट्रे चौरः, परदारगामी, परुषवादी, गृहदाहादिसाह, सकारी, दण्डपारुष्यकर्ता च नास्ति स राजा शक्रपुरं याति ॥ ३८६ ॥ एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । साम्राज्यकृत्सजात्येषु लोके चैव यशस्करः ॥ ३८७ ॥ एतेषामिति ॥ एतेषां स्तेनादीनां पञ्चानां स्वराष्ट्रे निग्रहः समानजातीयेषु राजसु मध्ये राजा साम्राज्यकृदिह लोके च यशस्करो भवति ॥ ३८७ ॥ ऋत्विजं यस्त्यजेद्याज्यो याज्यं चत्विक्त्यजेद्यदि । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ ३८८ ॥ ऋत्विजमिति ॥ यो याज्यः ऋत्विजं कर्मानुष्ठानसमर्थमतिपातकादिदोषरहि- तमृत्विग्वा याज्यमदुष्टं त्यजति तयोः शतं शतं दण्डः कार्य इति दण्डप्रसङ्गादि- दमुक्तम् ॥ ३८८॥ न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति । त्यजन्नपतितानेतानाज्ञा दण्ड्यः शतानि पट् ॥ ३८९ ॥ न मातेति ॥ मातृपितृभा-पुत्रास्त्यागमपोषणशुश्रूषणाद्यकरणात्मकं नाह- न्ति । तस्मादेतान्पातकादिरहितान्परित्यजन्नेकैकपरित्यागे राज्ञा पद शतानि दण्ड्यः ॥ ३८९॥ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विब्रूयान्नृपो धर्म चिकीर्षन्हितमात्मनः॥ ३९० ॥ आश्रमेष्विति ॥ द्विजातीनां गार्हस्थ्याद्याश्रमविषये कार्येऽयं शास्त्रार्थों नायं शास्त्रार्थ इति परस्परं जातविवादानां राजा स्वीयहितं चिकीर्षुरयं शास्त्रार्थ इति सदृशान्विशेषेण न ब्रूयात् ॥ ३९० ॥