पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३३३ क्षत्रियो दण्ड्यो', 'वैश्यः सर्वस्वम्' इत्युक्तत्वादयं प्राणान्तिकदण्डो गुणवद्राह्म- जीगमनविषयो बोद्धव्यः॥ ३७७ ॥ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विनां वलाद्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥३७८॥ सहस्रमिति ॥ रक्षितां विनां ब्राह्मणो बलेनोपगच्छन्सहस्त्रं दण्ड्यः स्यात् । इच्छन्त्या पुनः सकृन्मैथुने पञ्च शतानि दण्डनीयो भवेत् ॥ ३७८ ॥ मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ ३७९ ॥ मौण्ड्यमिति ॥ ब्राह्मणस्य वधदण्डस्थाने शिरोमुण्डनं दण्डः शास्त्रेणोपदि- श्यते । क्षत्रियादीनां पुनरुक्तेन घातेन दण्डो भवति ॥ ३७९ ॥ न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम् ॥ ३८० ॥ न जात्वित्यादि ॥ ब्राह्मणं सर्वपापकारिणमपि कदाचिन्न हन्यादपिनु सर्वस्व- युक्तमक्षतशरीरं राष्ट्रान्निर्वासयेत् ॥ ३८० ॥ न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तसादस्य वधं राजा मनसापि न चिन्तयेत् ॥ ३८१ ॥ नेति ॥ ब्राह्मणवधान्महान्पृथिव्यामधर्मो नास्ति । तस्माद्राजा सर्वपापकारिणो ब्राह्मणस्य मनसापि वधं न चिन्तयेत् ॥ ३८१ ॥ वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमहतः ॥ ३८२ ॥ वैश्यश्चेदिति ॥ रक्षितां क्षत्रियां यदि वैश्यो गच्छेत्क्षत्रियो वा यदि रक्षितां वैश्यां तदा तयोर्ब्राह्मण्यामगुप्तायां गमने यौ दण्डावुक्तौ 'वैश्यं पञ्चशतं कुर्यात्क्षत्रिय तु सहस्रिणम्' इति द्वावेव दण्डौ वैश्यक्षत्रिययोर्भवतः । अयं च वैश्यस्य रक्षितक्ष. त्रियागमने पञ्चशतरूपो दण्डो लधुत्वाद्गुणवद्वैश्यस्य निर्गुणजातिमात्रोपजीवि- क्षत्रियायाः शूद्राभ्रान्त्यादिगमनविषयो बोद्धव्यः । क्षत्रियस्य रक्षितवैश्यायां ज्ञानतो युक्तः सहस्रं दण्डः ॥ ३८२ ॥ सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते वजन् । शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः॥३८३ ॥ सहस्रमित्यादि ॥ क्षत्रियावैश्ये रक्षिते ब्राह्मणो व्रजन्सहस्रं दण्डं दापनीयः । शूद्रायां रक्षितायां क्षत्रियवैश्ययोर्गमने सहस्रमेव दण्डः स्यात् ॥ ३८३ ॥ क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः । मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा ॥ ३८४ ॥