पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ मनुस्मृतिः। [ अध्यायः ८ पुमांसमिति ॥ अनन्तरोक्तं जारं पापकारिणं पुरुषमयोमयशयने प्रज्वलिते राजा दाहयेत् । तत्र शयने वध्यघातिनः काष्ठानि निःक्षिपेयुर्यावत्पापकारी दग्धः स्यात् ॥ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः। वात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ ३७३ ॥ संवत्सरेति ॥ परस्त्रीगमनेन दुष्टस्य पुंसोऽदण्डितस्य च संवत्सरातिक्रमेणाभि- शस्तस्य पूर्वदण्डाद्विगुणो दमः कार्यः । तथा व्रात्यजायागमने यो दण्डः परिक- ल्पितः चाण्डाल्या सह निर्देशाच्चाण्डालीगमनरूपः, तथा चाण्डालीगमने यो दण्डः 'सहस्रं त्वन्त्यजस्त्रियम्' इति, संवत्सरे त्वतीते यदि तामेव व्रात्यजायां तामेव चाण्डाली पुनर्गच्छति तदा द्विगुणः कर्तव्यः । एतत्पूर्वस्यैवोदाहरणद्वयं व्रात्यजा- यागमनेऽपि चाण्डालीगमनदण्डप्रदर्शनार्थम् । सर्वस्यैव तु पूर्वाभिशस्तदण्डितस्य संवत्सरातिक्रमे पुनस्तामेव गच्छतः पूर्वाद्विगुणो दण्डो बोद्धव्यः ॥ ३७३ ॥ शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥ ३७४ ।। शूद्र इति ॥ भादिभी रक्षितामरक्षितां वा द्विजातिस्त्रियं यदि शूद्रो गच्छेत्तदा- रक्षितां रक्षारहितां गच्छंल्लिङ्गसर्वस्वाभ्यां वियोजनीयः । अत्राङ्गविशेषाश्रवणेऽपि आर्यख्यभिगमने लिङ्गोद्धारः। 'सर्वस्वहरणं गुप्तां चेद्वधोऽधिकः' इति गोतमव- चनाल्लिङ्गच्छेदः । रक्षितायां तु गच्छछरीरधनहीनः कर्तव्यः ॥ ३७४ ।। वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः। सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ३७५ ॥ वैश्य इति ॥ वैश्यस्य गुप्तब्राह्मणीगमने संवत्सरबन्धादनन्तरं सर्वस्वग्रहण- रूपो दण्डः कार्यः। क्षत्रियागमने तु 'वैश्यश्चेत्क्षत्रियान्' इति वक्ष्यति। क्षत्रियो गुल- ब्राह्मणीगमने सहस्रं दण्डनीयः । खरमूत्रेण चास्य मुण्डनं कर्तव्यम् ॥ ३७५ ॥ ब्राह्मणी यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥ ३७६ ॥ ब्राह्मणीमिति ॥ अरक्षितां तु ब्राह्मणी यदि वैश्यक्षत्रियौ गच्छतस्तदा वैश्य पञ्चशतदण्डयुक्तं कुर्यात् । क्षत्रियं पुनः सहस्रदण्डोपेतम् । वैश्ये चायं पञ्चशतदण्डः शूद्राभ्रमादिना निर्गुणजातिमानोपजीविब्राह्मणीगमनविषयः । तदितरब्राह्मणी- गमने वैश्यस्यापि सहस्रं दण्ड एव ॥ ३७६ ॥ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ३७७ ।। उभाविति ॥ तावेवोभावपि क्षत्रियवैश्यौ ब्राह्मण्या रक्षितया सह कृतमैथुनौ शूद्रवत्सर्वेण हीयेते इति दण्ड्यौ । यद्वा कटेनावेष्टय दग्धव्यौ । तत्र 'वैश्य लोहितदर्भः क्षत्रियं शरपत्रैवेष्टय' इति वसिष्टोत्तो विशेषो प्रायः । पूर्व 'सहस्त्रं ..