पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८]] मन्वर्थमुक्तावलीसंवलिता। न दापयेत् । हीनजातिं पुनः सेवमानां यत्नात्स्थापयेत् । यथा वा निवृत्तकामा स्यात् ॥३६५॥ उत्तमां सेवमानस्तु जघन्यो वधमर्हति । शुल्कं दद्यात्सेवमानः स मामिच्छेत्पिता यदि ॥ ३६६ ॥ उत्तमामिति ॥ हीनजातिरुत्कृष्टामिच्छन्तीमनिच्छन्तीं वागच्छत्यपेक्षयाङ्गच्छे- दनमारणात्मकं वधमर्हति । समानजातीयां पुनरिच्छन्ती गच्छन्यदि पिता मन्यते तदा पितुः शुल्कानुरूपमर्थ वा दद्यान्न च दण्ड्यः । सा च कन्या तेनैव वोढव्या ॥ ३६६ ॥ अभिषह्य तु यः कन्यां कुर्यादर्पण मानवः । तस्याशु कयें अङ्गुल्यौ दण्डं चाहति षट्शतम् ॥ ३६७ ॥ अभिषह्येति ॥ यो मनुष्यः प्रसह्य बलात्कारेण समानजातीयां गमनवर्जमहं- कारेणाङ्गुलिप्रक्षेपमात्रेणैव नाशयेत्तस्य शीघ्रमेवाङ्गुलिद्वयच्छेदः कर्तव्यः । षट्- पणशतानि चायं दण्ड्यः स्यात् ॥ ३६७ ॥ सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥३६८ ॥ सकामामिति ॥ समानजातिरिच्छन्ती कन्यामङ्गुलिप्रक्षेपमात्रेण नाशयन्नाङ्गु- लिच्छेदमाप्नोति । किंत्वतिप्रसक्तिनिवारणाय द्विशतं दण्डं दाप्यः ॥ ३६८ कन्यैव कन्यां या कुर्यात्तस्याः स्याद्विशतो दमः । शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाइश ॥ ३६९ ॥ कन्यैवेति ॥ या कन्यैव परामङ्गुलिप्रक्षेपेण नाशयेत्तस्य द्विशतो दण्डः स्यात् । कन्याशुल्कं च द्विगुणं कन्यापितुर्दद्याच्छिफाप्रहारांश्च दश प्राप्नुयात् ॥ ३६९ ॥ या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति । अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ ३७० ॥ या त्विति ॥ या पुनः कन्यामङ्गुलिप्रक्षेपेण स्त्री नाशयेत्सा तत्क्षणादेव शिरो- मुण्डनं, अनुबन्धापेक्षयाङ्गुल्योरेव छेदनं, गर्दभेण च राजमार्गे वहनमर्हति॥३७०॥ भर्तारं लग्येद्या तु स्त्री ज्ञातिगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ ३७१ ॥ भर्तारमिति ॥ या स्त्री प्रबलधनिकपित्रादिबान्धवदर्पण सौन्दर्यादिगुणदर्पण च पतिं पुरुषान्तरोपगमनाल्लङ्घयेत्तां राजा बहुजनाकीणे देशे श्वभिर्भक्षयेत् ॥३७॥ पुमांसं दाहयेत्पापं शयने तप्त आयसे । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ ३७२ ॥