पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अध्यायः १
मनुस्मृतिः ।

त्तरदानपर्यन्तश्लोकचतुष्टयेनैतस्य शास्त्रस्य प्रेक्षावत्यवृत्त्युपयुक्तानि विषयसंबन्धप्रयोजनान्युक्तानि । तत्र धर्म एव विषयः । तेन सह वचनसंदर्भरूपस्य मानवशास्त्रस्य प्रतिपाद्यप्रतिपादकलक्षणः संबन्धः । प्रमाणान्तरासनिकृष्टस्य स्वर्गापवर्गादिसाधनस्य धर्मस्य शास्त्रैकगम्यत्वात् । प्रयोजनं तु स्वर्गापवर्गादि । तस्य धर्माधीनत्वात् । यद्यपि पत्न्युपगमनादिरूपः कामोऽप्यत्राभिहितस्तथापि “ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा' इत्युतुकालादिनियमेन सोऽपि धर्म एव । एवं चार्थार्जनमपि ‘ऋतामृताभ्यां जीवेत' इत्यादिनियमेन धर्म एवेत्यवगन्तव्यम् । मोक्षोपायत्वेनाभिहितस्यात्मज्ञानस्यापि धर्मत्वाद्धर्मविषयत्वं, मोक्षोपदेशकत्वं चास्य शास्त्रस्योपपन्नम्। पौरुषेयत्वेऽपि मनुवाक्यानामविगीतमहाजनपरिग्रहाच्छ्रुत्युपग्रहाच्च वेदमूलकतया प्रामाण्यम् । तथा च छान्दोग्यब्राह्मणे श्रूयते- ‘मनुर्वै यत्किंचिदवदत्तद्भेषजं भैषजतायाः' इति । बृहस्पतिरप्याह-'वेदार्थोपनिबद्धत्वात्प्राधान्यं हि मनोः स्मृतम् । मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥ तावच्छास्त्राणि शोभन्ते तर्कव्याकरणानि च। धर्मार्थमोक्षोपदेष्टा मनुर्यावन्न दृश्यते॥' महाभारतेऽप्युक्तम्---‘पुराणं मानवो धर्मः साङ्गो वैदश्चिकित्सितस् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥' विरोधिबौद्धादितर्कैर्न हन्तव्यानि । अनुकूलस्तु मीमांसादितर्कः प्रवर्तनीय एव । अत एव वक्ष्यति-'आर्षे धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः' इति । सकलवेदार्थादिमननान्मनुं महर्षय इदं द्वितीयश्लोकवाक्यरूपमुच्यतेऽनेनेति वचनमब्रुवन् । श्लोकस्यादौ मनुनिर्देशो मङ्गलार्थः । परात्मन एव संसारस्थितये सार्वज्ञैश्वर्यादिसंपन्नमनुरूपेण प्रादुर्भूतत्वात्तदुभिधानस्य मङ्गलातिशयत्वात् । वक्ष्यति हि-‘एनमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्' इति । एकाग्रं विषयान्तराव्याक्षिप्तचित्तं आसीनं सुखोपविष्टम् । ईदृशस्यैव महर्षिप्रश्नोत्तरदानयोर्योग्यत्वात् । अभिगम्याभिमुखं गत्वा महर्षयो महान्तश्च ते ऋषयश्चेति तथा । प्रतिपूज्य पूजयित्वा । यद्वा मनुना पूर्व स्वागतासनदानादिना पूजितास्तस्य पूजां कृत्वेति प्रतिशब्दादुन्नीयते । यथान्यायं येन न्यायेन विधानेन प्रश्नः कर्तुं युज्यते प्रणतिभक्तिश्रद्धातिशयादिना । वक्ष्यति च–“नापृष्टः कस्यचिद्रूयान्न चान्यायेन पृच्छते' इति । अभिगम्य, प्रतिपूज्य, अब्रुवन्निति क्रियात्रयेऽपि मनुमित्येव कर्म । अबुवन्नित्यत्राकथितकर्मता । ब्रुविधातोद्विकर्मकत्वात् ॥ १ ॥

 किमब्रुवन्नित्यपेक्षायामाह---

भगवन्सर्ववर्णानां यथावदनुपूर्वशः ।।
अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥ २ ॥

 भगवन्नित्यादि ॥ ऐश्वर्यादीनां भगशब्दो वाचकः । तदुक्तं विष्णुपुराणे-‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥ मतुबन्तेन संबोधनं भगवन्निति । वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः सर्वे च ते वर्णाश्चेति सर्ववर्णाः तेषामन्तरप्रभवाणां च संकीर्णजातीनां चापि अनुलोमप्रतिलोमजातानां