अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३२१
अक्रयस्येति ॥ हिरवधारणे । चौराणां नियमनेन यो नृपतिः साधूनामभयं
ददाति स एव पूज्यः पूर्वेषां श्लाघ्यो भवति । सत्रं गवायनादिक्रतुविशेषः यद्यमा-
त्सवमिव सत्रं तदभयदानाञ्चौरनिग्रहरूपाभयदक्षिणं सर्वदैव तस्य वृद्धिमेति ।
अन्यद्धि नियतकालीनं नियतदक्षिणं च, एतत्सर्वकालीनमभयदक्षिणं चेति वाक्यं
व्यतिरेकालंकारः॥ ३०३ ॥
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।
अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ ३०४ ॥
सर्वत इति ॥ प्रजा रक्षतो राज्ञः सर्वस्य भृतिदातुर्वणिगाडे त्यदानुश्च श्रोत्रि-
यादेः सकाशाद्धर्मपड्भागो भवति । अरक्षतश्चाधर्मादपि लोकेन कृतात्पड्भागः
स्यात् । तस्माद्यत्नतः स्तेननिग्रहेण राजा रक्षणं कुर्यात् । नच भृतिक्रीतत्वाद्राज्ञो
धर्मपड्भागो न युक्त इति वाच्यम् । भृत्या धर्मषड्भागेन च परिक्रीतस्य शास्त्री-
यत्वात् ॥ ३०४॥
यदधीते यधजते यददाति यदर्चति ।
तस्य षनागभागाजा सम्यग्भवति रक्षणात् ॥ ३०५॥
यदिति ॥ यः कश्विजपयागदानदेवतार्चादीनि करोति तस्य राजा पालनेन
षड्भागं प्राप्नोति ॥ ३०५ ॥
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ ३०६ ॥
रक्षन्निति ॥ भूतानि सर्वाणि स्थावरजङ्गमादीनि यथाशास्त्रं दण्डप्रणयनरूपेण
धर्मेण रक्षन् , वध्यांश्च स्तेनादीस्ताडयन् , प्रत्यहं लक्षगोदक्षिणयंज्ञेर्यजते । तज्जन्य
गुण्यं प्राप्नोतीति भावः ॥ ३०६ ॥
योऽरक्षन्नलिमादत्ते करं शुल्कं च पार्थिवः ।
प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ३०७ ॥
योऽरक्षन्निति ॥ यो राजा रक्षामकुर्वन् बलिं धान्यादेः षड्भागं ग्रामवासिभ्यः
प्रतिमाम वा भाद्रपौषनियमेन ग्राह्यं शुल्कं स्थलजलपथादिना वणिज्याकारितेभ्यो
नियतस्थानेषु द्रव्यानुसारेण ग्राह्यं दानमिति प्रसिद्धंप्रतिभागं फलकुसुमशाकन-
णाधुपायनं प्रतिदिनग्राह्यं दण्डं व्यवहारादौ गृह्णाति स मृतः सन्सद्य एव नरकं
याति ॥ ३०७ ॥
अरक्षितारं राजानं बलिपनागहारिणम् ।
तमाहुः
सर्वलोकस्य समग्रमलहारकम् ॥ ३०८ ॥
अरक्षितारमिति ॥ यो राजा न रक्षत्यथ च धान्यादिषड्भागं बलिरूपं गृह्णाति,
तं सर्वलोकानां सकलपापहारिणं मन्वादय आहुः ॥ ३०८ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
